________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ]
राजनिघण्टुसहितः ।
१०३
गुणाः - ककोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परं । दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥ ७० ॥
(१४) पूगफलम् । ( पूगम् )
स्यात्पूगफलमुद्वेगं स्रंसि घोण्टाफलं स्मृतम् । चिक्कणं चिकणा चिका गुर्वाकः खपुरं च तत् ।। ३९ ।
गुणाः -- भेदि संमोहकृत्पूगं कषायं स्वादु रोचनम् । कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् ।। ४० ।।
राजनिघण्टावाम्रादिरेकादशो वर्ग:--
पूगस्तु पूगवृक्षश्च क्रमुको दीर्घपादपः । वल्कतरुर्दृढवल्कचिकणश्च मुनि
ह्वयः ।। ७१ ।।
गुणाः -- पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः । विपाके सोष्णकक्षारः साम्लो वातपित्तल: ।। ७२ ।। विशेषश्च – पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा । उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥ ७३ ॥
गुणाः--सैरी च मधुरा रुच्या कषायाम्ला कटुस्तथा । पथ्या च कफवातनी सारिका मुखदोषनुत् ॥ ७४ ॥ तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु । त्रिदोषशमनं दीप्यं रसालं पाचनं समम् ॥ ७५ ॥ गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनम् । विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥ ७६ ॥
घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी । मलविष्टम्भशमनी पित्तहृदीपनी च सा ॥ ७७ ॥ पूगीफलं चेडैलसंज्ञकं यत्तत्कोङ्कणेषु प्रथितं सुगन्धि । श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं रसाढ्यम् ॥ ७८ ॥ यत्कोङ्कणे वेल्लिगुणाभिधानकं ग्रामोद्भवं पुगफलं त्रिदोषनुत् । आमा। पहं रोचनरुच्यपाचनं विष्टम्भेतुन्दामय हारि दीपनम् ॥ ७९ 11 चैन्द्रापुरोद्भवं पूगं कफनं मलशोधनम् । कटु स्वादु कषायं च रुच्यं दीपनपाचनम् ॥ ८० ॥ आन्ध्रदेशोद्भव पूगं कषायं मधुरं रसे । वातजिद्वक्त्रजाड्यन्नमीपदम्लं कफापहम् ॥ ८१ ॥ पूगीफलविशेषगुणाः --- पूगं संमोहकृत्सर्वं कषायं स्वादु रेचनम् । त्रिदोषशमनं रुच्यं वक्त्रक्केदमलापहम् ||८२ ॥ अपि च- आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तमशमनमुदराध्मानहारं सरं च । शुष्कं कण्ठामयनं रुचिकरमुदितं पाचनं रेचनं स्यात्चत्पर्णेनायुतं ज्झटिति वितनुते पाण्डुवातं च शोषम् ॥ ८३ ॥
१ ख. ग. झ. श्यावफलं । २ च. ट. खेरी । ३ ट. 'डलिसं 1 ४८. म्भदामाम । ५ य. चन्द्रपु ं । ६ ज. शोफम् ।
For Private and Personal Use Only