SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१ ३ तृतीयो वर्गः] राजनिघण्टुसहितः। तावता कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौरभ्यमेको गुणः। येमासौ स्मरपण्डनैकवसतिभाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम्॥५५॥ (१०) कर्पूरः। कर्पूरः शीतलरजः शीताभ्रः स्फटिको हिमः। चन्द्रस्तुषारस्तुहिनः शशीन्दुर्हिमवालुकः ॥ ३१ ॥ __गुणाः-कर्पूरं कटु तिक्तं च मधुरं शिशिरं विदुः । तृण्मेदोविषदोषघ्नं चक्षुष्यं मदकारकम् ।। ३२॥ __ राजनिघण्टौ चन्दनादिदिशो वर्ग: कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुहिमवालुका हिमकरः शीतप्रभः शांभवः । शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश्चन्द्रालोकतुषारगौरकुमुदान्येकादशाऽऽह्वा द्विधाः॥ ५६ ॥ कर्पूरमेदाःपोतासो भीमसेनस्तदनु शितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जोऽब्दसारस्तदनु हिमयुता वालुका जूटिका च । पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पंकिकाऽन्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥५७॥ गुणाः--कर्पूरः शिशिरस्तिक्तः स्निग्धश्चोष्णोऽस्रदाहदः । चिरस्थो दाहदोषघ्नः स धौतः शुभकृत्परः ॥ ५८ ॥ कर्पूरलक्षणानि-शिरो मध्यं सलं चेति कर्पूरस्त्रिविधः स्मृतः। शिरस्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ ५९॥ • भास्वद्विशदपुलकं शिरोजातं तु मध्यमम् । सामान्यपुलकं स्वच्छं तले चूर्ण तु गौरकम् ॥ ६०॥ स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भवाद्ये च मध्यमम् । स्वच्छमीषद्धरिद्राभं शुभं तन्मध्यमं स्मृतम् ॥ ६१ ॥ सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् । अपि च–स्वच्छं भृङ्गारपत्रं लघुतरविशदं तोलने तिक्तकं चेत्स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि । निःस्नेहं दाढर्यपत्रं शुभतरमिति चेद्राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेबहुतरमशने स्फोटदायि वणाय ॥ ६२॥ राजनिघण्टौ चन्दनादिदशो वर्ग: चीनकः ( कर्पूरविशेषः ) ॥ ११ ॥ चीनकचीनकर्पूरः कृत्रिमो धवलः पटुः । मेघसारस्तुषारा द्वीपकर्पूरजः स्मृतः ॥ ६३ ॥ १ झ. द्विशः । २ ज. पश्चिकाऽन्या। ट. पच्चिका। ३ झ. ट. रशमने । ४ ज, ट. 'श्च द्विप। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy