________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[चन्दनादिः(९) कस्तूरिका। कस्तूरिका मृगमदो मृगनाभिर्मगाण्डजा । मार्जारी वेधमुख्या च मदनी गन्धचेलिका ॥ २८॥
गुणाः-कस्तूरिका रसे तिक्ता कटुः श्लेष्मानिलापही । विपनी दोपशमनी मुखशोषहरा परा ॥ २९ ॥ अन्यच्च-कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगजित् । किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥ ३० ॥
राजनिघण्टौ चन्दनादिादशो वर्ग:-- कस्तूरी मृगनाभिस्तु मदनी गन्धचेलिका। वेधमुख्था च मार्जाली सुभगा बहुगन्धदा ॥ ४६ ॥ सहस्रवेधी श्यामा स्यात्कामानन्दा मृगाण्डजा । कुरङ्गनाभी ललिता मदो मृगमदस्तथा ॥ ४७ ॥ श्यामली काममोदी च विझेयाऽष्टादशाह्वया । कस्तूरीविशेषः–कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् । नेपालेऽपि च काश्मीरे कामरूपे च जायते ॥ ४८ ॥ साऽप्यका खरिका ततश्च तिलका ज्ञेया कुलित्थाऽपरा पिण्डाऽन्यापि च नायिकेति च परा या पञ्चभेदाभिधा । सा शुद्धा मृगनाभितः क्रमवशादेपा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ ४९ ॥ चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च कुलित्थका च । स्थूला ततः कियदियं किल पिण्डिकाख्या तस्याश्च किंचिदधिका यदि नायिका सा ॥५०॥ कस्तूरीलक्षणम्-स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च । याऽप्सु न्यस्ता नैव वैवर्ण्यमीयात्कस्तूरी सा राजभोग्या प्रशस्ता ॥५१॥ अपि च या गन्धं केतकीनामपहरति मदं सिन्धुराणां च धत्ते स्वादे तिक्ता कटुर्वा लघुरथ तुलिता मर्दिता चिकणा स्यात् । दाहं या नैति वसौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ ५२ ॥ अन्यच्च कस्तूरीलक्षणम्-बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता । कामातुरे च तरुणे कस्तूरी बहलपरिमला भवति ॥ ५३ ॥ कृत्रिमकस्तूरीलक्षणम्या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसोंऽनिःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः। या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञया कस्सूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥५४॥ गुणाः–कस्तूरीप्रशंसा–शुद्धो वा मलिनोऽस्तु वा मृगमदः किं जातमे
१ घ. गन्धमुख्या। २ ग. हा । वक्त्रसौरभ्यजननी हृया बस्तिविशोधनी । । ३ ज. स्थ्यगन्धाल।
For Private and Personal Use Only