SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। गुणाः-कटु तिक्तोष्णमगरु स्निग्धं वातकफापहम् । श्रुतिनेत्ररुजं हन्ति माङ्गल्यं कुष्ठनुत्परम् ॥ २६ ॥ राजनिघण्टौ चन्दनादिदशो वर्गः स्वादुस्त्वगरुसारः स्यात्सुधूम्यो गन्धधूमजः ॥ गुणाः-स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥ ३९ ॥ कालेयकम् ( अगरुविशेषः ) ॥७॥ कालेयकं ससारं च पीतवर्ण च शब्दतः । गुणाः-वर्णप्रसादनं चैव लघुचन्दनमेव च ॥ २७॥ राजनिघण्टौ चन्दनादिादशो वर्ग:कृष्णागरु स्यादगरु शृङ्गारं विश्वरूपकम् । शीर्ष कालागरु केश्यं वसुकं कृष्णकाष्ठकम् ॥ ४० ॥ धूपार्ह वल्लरं गन्धराजकं द्वादशाहयम् । गुणाः-कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् । पाने पित्तहरं किंचित्रिदोषघ्नमुदाहृतम् ॥ ४१॥ राजनिघण्टौ चन्दनादिदशो वर्ग: काष्ठागरु ( अगरुविशेषः ) ॥ ८॥ अन्यागरु पीतकं च लोहं वर्णप्रसादनम् । अनार्यकमसारं च कृमिर्जग्धं च काष्ठकम् ॥ ४२ ॥ गुणाः-काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहम् । राजनिघण्टौ चन्दनादिादशो वर्गः दाहागरु ( अगरुविशेषः ) ॥९॥ दाहागरु दहनागर दाहककाष्ठं च वहिकाष्ठं च । धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ ४३ ॥ गुणाः-दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्य च । अपनयति केशदोषानातनुते संततं च सौगन्ध्यम् ॥ ४४ ॥ राजनिघण्टौ चन्दनादिादशो वर्गः मङ्गल्या ( अगरुविशेषः ) ॥ १० ॥ मङ्गल्या मल्लिका गन्धमङ्गलाऽगरुवाचका । ___ गुणाः-मङ्गल्या गुरुशिशिरा गन्धाढ्या योमवाहिका ॥ ४५ ॥ १ झ. ढ.'जघ्नं च। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy