________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
धन्वन्तरीयनिघण्टुः
[चन्दनादिः
(६) रोचना। रोचना पिङ्गला पिङ्गा मेध्या गौरी च गोमती । माङ्गल्या वन्दनीयाऽया पावनी रुचिरा रुचिः ॥ २० ॥
गुणाः-रोचना पाचनी शीता विषनेत्ररुजो जयेत् । सौभाग्यकरणी भूतग्रहदोषं च माशयेत् ॥ २१ ॥ ___ राजनिघण्टौ चन्दनादिदिशो वर्गः
गोरोचना रुचिः शोभा रुचिरा रोचनी शुभा । गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ ३३ ॥ पीता च गोमती गव्या वन्दनीया च काञ्चनी। मेध्या मनोरमा श्यामा रामा भूमिकरावया ॥३४॥
गुणाः-गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी कृमिकुष्ठहत्री । भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥ ३५॥
(७) तुरुष्कः । तुरुष्को यावनः कल्कः पिण्याकः पिण्डितः कपिः। कपिजः कृत्रिमो धूम्रो धूम्रवर्णश्च सिहकः ॥ २२ ॥ सुगन्धिः कृतकश्चैव युक्तियुक्तश्च पिण्डकः । कपितैलमिति ख्यातं तथा पिङ्गलनामकम् ॥ २३ ॥ __ गुणाः—तुरुष्कः कटुतिक्तोष्णः स्निग्धो वातबलासजित् । स्वादुश्च कटुकः पाके सुरभिर्देवताप्रियः ॥ २४ ॥
राजनिघण्टौ चन्दनादिदशो वर्गःतुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः । सिहकः सिहसारश्च पीतसारः कपिस्तथा ॥ ३६॥ पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनो मुनिभूतयः ॥ ३७॥
गुणाः-तुरुष्कः सुरभिस्तिक्तः कटुस्निग्धश्च कुष्ठजित् । कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ ३८॥
(८) अगरु ( आर्द्रा ) अगरु प्रवरं लोहं कृमिजग्धमनार्यकम् । कृष्णागरु स्यादगरु योगजं विश्वधूपकम् ॥ २५॥
१ क. ह. रुचिदा । २ क. स. ग. घ, ङ. "श्वरूप ।
For Private and Personal Use Only