SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। न्धिकम् ॥ २५ ॥ रणप्रियं वारितरं शिशिरं शितिमूलकम् । वेणागमूलक चैव जलामोदं सुगन्धिकम् ॥ २६ ॥ सुगन्धिमूलकं शुभ्रं वालकं वसुभूवयम् । ___गुणाः-उशीरं शीतलं तिक्तं दाहश्रमहरं परम् । पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ २७ ॥ (४) प्रियङ्गुः । प्रियङ्गुः प्रियवल्ली च फलिनी कङ्गुनी प्रिया । वृत्ता गोवन्दनी श्यामा कारम्भा वर्णभेदिनी ॥ १६ ॥ गुणाः—प्रियङ्गुः शीतला तिक्ता मोहदाहविनाशिनी । ज्वरवान्सिहरा रक्तमुद्रिक्तं च प्रसादयेत् ॥ १७ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःप्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया। गौरी गोवन्दनी वृत्ता कारम्भा कङ्गुकङ्गुनी ॥ २८ ॥ भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी। शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ २९ ॥ गुणाः-प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् । वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥ ३० ॥ (५) तूणिः । तूणिस्तूणीकमापीतस्तूणिकः कनकस्तथा । कुठेरकः कान्तलको नन्दिवृक्षोऽथ नन्दिकः ॥ १८ ॥ ___ गुणाः-तूणी त्रिदोपहृदृष्यकण्डूकुष्ठवणापहः । गण्डमालापहरणः संनिपातनिकृन्तनः ॥ १९ ॥ राजनिघण्टौ चन्दनादिादशो वर्ग:तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा । नन्दी कुठेरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ ३१ ॥ _गुणाः-नन्दीक्षः कटुस्तितः पीतस्तिक्तास्रदाहजित् । शिरोतिश्वेतकुष्ठन्नः सुगन्धिः पुष्टिवीर्यदः ॥ ३२ ॥ १ झ. वेणीगं मू । २ क. ख. ग, टु. भेदनी । ३ झ. 'मुद्रक्तं । ४ क. ङ. तूणिस्तूणीकण: पीततणिकः कच्छकस्तथा । कुटीर' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy