________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यसारकथानकम्।
॥१५॥
गत्वा नत्वा मुनि पौरा, योजिताञ्जलिकुड्मलाः । उपाविक्षन् पुरः पातु,-मिव धर्मसुधारसम् ॥ २८३ ॥ सुरद्वद्धर्मसारं, श्रुत्वाऽऽयातमुपेत्य च । नत्वाम्बा पुण्यसारेण, सार्द्धमेवं व्यजिज्ञपत् ।। २८४ ॥ प्रमादद्विषतो गेहे, वर्तमानः सदाऽपि हि । बान्धवस्यैष धर्मास्य, न संमुखमपीक्षते ॥ २८५ ॥ यथा धर्मरतोऽसौ स्यात् , सदा स्वामिस्तथा कुरु । भीष्मा अप्यहयो मन्त्रः, क्रियन्ते निर्विषा न किम् ॥२८६॥ युग्मम् ॥ धर्मसारोऽवदद् भद्र, पुण्यसारात्र संस्मृ(स)तौ । वाडौँ रत्नमिव भ्रष्टुं(ष्टं), दुर्लभं मानुषं जनुः ॥ २८७ ॥ जैनः सुदुर्लभो धर्मों, विभवो गतपुण्यवत् । सामग्री दुर्लभा सिद्धि-रिव साधुसधर्मणोः ॥ २८८ ।। प्रयाणामेष संयोग, त्रिवेणीसङ्गमाधिकः । संप्राप्तः सफलीकार्यः, क्षेत्रबद्वारिदैर्वृषः ॥ २८९ ॥ कामिनी विभवः काम्या, विषया यौवनोदयः । पूर्वजन्मकृतस्यैते, सुकृतस्यैव किङ्कराः ॥ २९० ॥ मुहूर्तघटिकायाम,-दिनपक्षादिका धनाः । उद्दण्डयमदण्डस्य, प्रहारा अतिनिदेयाः ।। २९१ ॥ देहिनां यत्र देहेषु, निपतन्ति समन्ततः । तत्राशा कीदृशी वस्तुं, क्रियते भववेश्मनि ।। २९२ ॥ युग्मम् ।। यत्र शक्तः कृतान्तोऽपि, न प्रहर्नु कदाचन । तन्महोदयसबाप्तुं, भजाहद्धर्म(4) बान्धव ! ॥ २९३ ॥ किश्च त्वं धनसारस्या,--पुण्यस्य स्वपितुर्गतिम् । शृणु दुर्विधचण्डाली,-तनयोऽभूत्पिता तव ॥ २९४ ॥
चेटकाधिष्ठितेनेष, द्रम्मपञ्चकदापनात् । भञ्जन्त्या वदनं मातु,-रश्मना रक्षितस्त्वया ।। २९५॥ १. संसारे।
॥१५॥
For Private and Personal Use Only