________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यसारकथानकम्।
यदेवं जैनधर्मेऽपि, प्राप्ते पश्चापि नाक्षतान् । अर्होऽर्हत्सदने दातुं, संविभागं न साधुषु ।। १८३ ॥ चिन्तितार्पणशक्तेऽपि, चिन्तारत्ने करस्थिते । निष्पुण्यस्येव तन्मे न, स्वोदरस्यापि पूरणम् ॥ १८४ ॥ युग्मम् ॥ ज्ञाततत्त्वोऽपि यन्नाहं, जिनं पूजयितुं लमे । तदाद्ये कवले मन्ये, मक्षिका पतिता मम ॥ १८५ ॥ चैत्ये साधौ च सत्क्षेत्रे, यधूनं बीजमुप्यते । तसिक्तं भावपीयूषै,-रनन्तं भवति ध्रुवम् ॥ १८६ ॥ ईच्छतोऽनिच्छतो वाऽपि, शुद्धवंशगृहेशितुः । भ्रातृपुत्रकलत्रादि, मध्याद्यः कोऽपि यच्छति ।। १८७ ॥ तेनापि मुनिचैत्यादौ, दत्तं स्यात्सफलं धनम् । न्यस्ता यथा तथाऽऽस्ये हि, मिष्टं निर्माति शर्करा ॥१८८।। युग्मम् ।। कदलीफलखर्जूर, द्राक्षापक्वान्नमुख्यकैः । प्रचुरैर्वस्तुभिः पूर्णे, वर्तमानोऽपि मेन्दिरे ॥ १८९ ॥ भोगान्तरायतो भोक्तुं, यथा न लभते नरः । तथाऽहं जैनधर्मेऽपि, स्थितो दातुं लभेन हि ॥ १९० ।। युग्मम् ।।
4315-ACCESC5%9CLECTECH4
१. यदा एवं विघे जैनधर्म प्राप्तेऽपि अर्हत्-सदने पञ्चापि अक्षतान् नाहन योग्यः साधुषु संविभागं दातुं नाहः न योग्यः । २. उप्यते-रोप्यते । ३. गृहिणी, की० शुद्धवंशगृहस्वामिनः । की० इच्छतः, की० अनिच्छतः ? तस्य सत्कभ्रातृपुत्रादिमध्यात् यः कोऽपि यच्छति पात्रे दानं तेनापि, कोऽर्थः ? प्रातृपुत्रादिना दत्तं दानं सफलं स्यात् , इत्यर्थः । ४. आस्ये-वदने इत्यर्थः । ५. मन्दिरे पूणे वर्तमाने नरो न लभते ॥ (श्लो. १८९-१९० युग्मम् )
॥१०॥
For Private and Personal Use Only