SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोचे मांसरक्ते मे, भुक्ते अग्रेतनाकः । भोक्ताऽस्थीनि ममार्य त,-न्मारयेऽहं छलादपि ॥ १७५ ॥ भाविन्यपि जन्मन्यस्य, मुखं लात्वा पतिर्ययौ। कर्नु न सूतिकर्मापि, मम किश्चन विद्यते ॥ १७६ ॥ धर्मसारेण सावादि, गृहाण द्रम्मपञ्चकम् । आजगाम निज धाम, विस्मयस्मेरमानसः॥ १७७ ॥ समुद्यद्दशनज्योतिः,-पीयूपं पायव(य)निव । भूयोऽभाषत या(जा मेयो, मातुलं प्रति साञ्जसम् ॥ १७८ ॥ वत्स ! पर्युषितं जेमन् , सदा दुःखी भविष्यसि । इति मातृवचस्तत्चं, ज्ञात(तु)मुत्कोऽभवद्भवान् ॥ १७९॥ भूयो भूयोऽपि पृष्टापि, माताऽवोचन किश्चन । श्रुतसागरसूर्यन्ते, किन्तु त्वां पाहिणोदियम् ।। १८० ॥ चतुर्जानीप्रियाकान्ते,-रपि त्वं मुनिपुङ्गवैः । यदन्ते प्रेष्यथास्तं मां, विजानीया जनङ्गमम् ॥ १८१ ॥ मद्वेश्मनि यदाऽऽगच्छद् , भवान् साधर्मिकोत्तमः । तदा सद्भावकल्पद्रु,-रुदैन्मम मनोगृहे ॥ १८२ ॥ १. भोक्ता कर्ता अयं बालः, कर्म--अस्थीनि, कस्य ! मम । २. सूतिकर्म कर्तुं मम किञ्चन, कोऽर्थः ! किञ्चिदपि न विद्यते । ३. विस्मयस्मेरमानसः, कोऽर्थः ! आश्चर्यमनाः । ४. अभवत् , कर्ता-भवान् त्वं, की० उत्कः, कोऽर्थः उत्कण्ठितः । किं कर्त ! ज्ञातुं कर्म-मातृवचस्तत्त्वम् । ५. प्राहिणोत्प्रेषयामास, की-इयं माता । ६. चतुर्ज्ञानी, इत्यादि, कोऽर्थः ! विजानीयाः जानीहि, कर्ता त्वं, कर्म-तं मां किं० जनङ्गमं स्थावरं-चण्डालं यदन्ते प्रेष्यथाः, कोऽर्थः ? प्रेषिता, कर्म-त्वं कर्तृभिः-मुनिपुङ्गवैः, की. चतुशान्येव प्रिया भार्या तया कान्ताः, कोऽर्थः ! मनोहराः, तैः, क ! यदन्ते-यस्य चाण्डालस्य अन्ते पार्श्वे यदन्ते । For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy