________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोमते विद्यया विप्रः, क्षत्रियो विजयेन वै । अर्थः पात्रे प्रदानेन, लज्जया च कुलाङ्गना
॥८१॥
कवयः किं न पश्यन्ति, किं न खादन्ति वायसाः। मद्यपा किं न जल्पन्ति, किं न कुर्वन्ति दुर्जनाः ॥८२॥
पादपानां भयं वातात् , पनानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् , साधूनां दूर्जनाद् भयम् ॥ ८३॥
सत्येन धार्यसे पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ ८४ ॥
आत्मनो मुखदोषेण, बध्यन्ते सुकसारिकाः । बकास्तु नैव बध्यन्ते, मौनं सर्वार्थसाधनम् ॥ ८५ ॥
अहो दुर्जनसंसर्गा-न्मानहानिः पदे पदे । पावको लोहसङ्गेन; मुद्गरैरभिहन्यते
॥८६॥
अन्नदानं महादानं, विद्यादानं महत्तरम् । अनेन क्षणिका तृप्ति-विज्जीवं तु विद्यया ॥८७ ॥
For Private And Personal