________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संशोधकनिवेदनम्
श्रीमदभिर्गवेषणालयनिदेशकैः डॉ० भागीरथप्रसादत्रिपाठि-( वागीशः शास्त्री) महाभागैराज्ञप्तेन मया न्यायकन्दलोटोकायुतस्यास्य प्रशस्तपादभाष्यग्रन्थस्य यथाशक्यं यथाशीघ्रं च पुनर्मुद्रणक्षमं संशोधन विहितम् ।
यद्यप्यत्र न्यायकन्दल्यां तत्सहकृत-हिन्दीभाषानुवादे चानुच्छेदादिव्यवस्था नास्ति समीचीना, अतः पाठकानां सौविध्याय आपेक्षिकानुच्छेदा दिविधेरवश्यम्भावादपि ग्रन्थस्य मुद्रणप्रकाशनशैव्रयविधिसम्भवात् पुनः पूर्वसदृश एवायं ग्रन्थः संस्कृतः; तथापि समेवां भाष्य-कन्दली-भाषानुवादानां प्रती कानुसारं पृष्ठबन्धने ऐक्यरूप्यापादनाय यत्र तत्र यथासम्भवं कियत्प्रयासस्तरसा कृतोऽपि ।
___ ग्रन्थेऽस्मिन् संशोधन विधकर्मणा सप्ततिपृष्ठे ( पृ० ७० ) 'प्रशस्तपादभाष्यम्' इत्यस्योपरि अथ द्रव्यपदार्थनिरूपणम् इति नूतनं शीर्षकं विधाय 'पृथिवी-प्रकरणम्' इत्युपशीर्षकात् पूर्व स्वल्पस्थानभावाद् द्रव्येषु-इतिकर्तव्यस्थाने केवलं 'द्रव्ये' इति पदं योजितम् । तथैव गुणपदार्थनिरूपण-प्रकरणे पञ्चाशदुत्तर-द्विशततमपृष्ठत: (पृ० २५०) ग्रन्थोपशीर्षकात् पूर्व गुणेषु-इतिकर्तव्यस्थाने केवलं 'गुणे' इति पदं योजितम् ।।
. एकचत्वारिंशदुत्तर-सप्तशततमपृष्ठे ( पृ० ७४१ ) उपरि मुद्रितम् 'प्रशस्तपादभाष्यम्' पदं मुद्रितात अथ सामान्यपदार्थनिरूपणम् शीर्षकादधः कृतम् । तथैव पञ्चषष्ट्यत्तरसप्तशततमपृष्ठे ( पृ० ७६५ ) मुद्रितम् 'प्रशस्तपादभाष्यम्' पदं मुद्रितात् अथ विशेषपदार्थनिरूपणम् शीर्षकात, तथा व्यधिकसप्तत्युत्तर-सप्तशततमपृष्ठे ( पृ० ७७३) मुद्रितात् अथ समवायपदार्थनिरूपणम् शोर्षकाच्चाधः कृतम् । प्रतीकानुसारं च केषाञ्चित् प्रशस्तपादभाष्यांशानां न्यायकन्दल्यंशानां च पृष्ठपरिवर्तनम्
यथा सप्तपञ्चाशदुत्तर-षटशततमपृष्ठे । पृ० ६५७ ) मुद्रितः "स्थितिस्थापकस्तु घनावयवमन्त्रि-' भाष्यांशोऽष्टपञ्चाशदुत्तर-षट्शततमपृष्ठे ( पृ० ६५८) कृतः, तद्धिन्दीभाषानुवादोऽपि तत्रैव विहितः।
नवपञ्चाशदुत्तर-षटशततमपृष्ठे (पृ० ६५६) मुद्रितः 'धर्मः पुरुषगुणः.."." विशुद्धाभिसन्धिजः' भाष्यांशः षष्ट्युत्तर-षट्शततमपृष्ठे (पृ० ६६०) परिवर्तितः। तथात्रस्थः (पृ० ६६०) 'समवेतमसमवायिकारणं स स्थितिस्थापकः' इत्यादिकन्दल्यंशो नवपञ्चाशदुतर-षट्शनतमपृष्ठे ( पृ. ६५६ ) कन्दल्यंशे निवेशितः ।
पञ्चषष्ट्युत्तर-षट्शततमपृष्ठे (पृ० ६६५ ) 'तत्र सामान्यानि .... विशिष्टदेवताभक्तिरुपवासोऽप्रपादश्च' इति भाष्यांशः सर्वत्रेव भाषानुवादेन सह षट्षष्ट्युत्तर-पट्शततमपृष्ठे ( पु० ६६६ ) कृतोऽर्थ पंवादात् । तथास्थः (पृ. ६६६ । 'ब्राह्मणक्षत्रियवैश्यानाम् .. .."संस्कार' भाष्यांशः सप्तषष्ट्युतर-षट्श । तमपृष्ठे (पृ० ६६७ ) परिवर्तितः ।
For Private And Personal