________________ ~~r... [18-27] प्रशमरतिः इच्छा मूर्छा कामः स्नेहो गाध्य ममत्वमभिनन्दः। अभिलार इत्यनेकानि रागपर्यायवचनानि // 10 // हा रोग दोषो द्वेषः परिवादमत्सरासूयाः। वैरप्रचण्डनाया नैके द्वेषस्य पर्यायाः // 15 // रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या / पञ्चास्रवमलबहुलातरौद्रतीब्राभिसंधानः // 20 // कार्याकार्यविनिश्चयसंश्लेशविशदिलकर्मढः। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः // 21 // क्लिष्टाष्टकर्मबन्धनबदनिकाचितगुरुर्गतिशतेषु / जन्ममरणैरजस्रं बहुविधपरिवर्तनानान्तः // 22 // दुःखसहस्त्रनिरन्तरगुरुमाराकान्तकर्षितः करुणः। विषयसुखानुगततरः कवायवक्तव्यतामेति // 23 // __स क्रोधमानमायालोरतिदुर्जयैः परामृष्टः / प्राप्नोति याननर्यान कस्तानुदेष्टुमपि शक्तः॥२४॥ क्रोधात्त्रीलिविनाशं मानाद्वियोपघातमाप्नोति / शायात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् // 25 // क्रोधः परितापकरः सर्वस्योगकारकः क्रोधः। वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता // 26 // श्रुतशीलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य / मानस्य को ऽवकाशं मुहूर्तमपि पण्डितो दद्यात् // 27 //