________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम् ।
७५
ख्यक इति मेरुपंक्रिवर्तितत्तत्कोष्ठस्यांकनिर्धारितस्वरूपसंख्याकानां भेदानां प्रथमद्वितीयादिप्रातिस्विकरूपस्य निर्धारणं तन्निर्धारकांकसमूहो वा पताका, मा द्विविधा वर्णपताका मात्रापताका चेति ।
वर्णपताकानिर्माणप्रकारमाह उद्दिट्टा मरि अंकेति। उद्दिट्टा सरि - उद्दिष्टसदृशान् उद्दिष्टपदस्योद्दिष्टांकपरत्वादुद्दिष्टांकसदृशानित्यर्थः, अंक - अंकान्, दिन-देहि, प[पूर्वमेकमकं दत्त्वा उत्तरोत्तरं द्विगुणितान् विचतुरष्टादिकानंकान् यथाप्रस्तारसंख्यं स्थापयेदित्यर्थः, ततः पुब्ब अंक- पूर्वीकस्य, पर – परस्मिन्नुत्तरवर्तिनौति यावत् अंके इति शेषः, पत्थरसंख - प्रस्तारसंख्यं प्रस्तारस्य संख्या यस्यां क्रियायां तद्यथा स्यात्तथेत्यर्थः, भरण - योजन करिब्बसु - कुरु। यस्य पूर्वाकस्य यत्परांकयोजने प्रस्तारसंख्याकोर्डको निष्पद्यते, तस्य पूर्वाकस्य तत्र परांके योजनं न कार्यमित्येको नियम इत्यर्थः । एवं कृते पाउल अंक पढम- अवहट्टभाषायां पूर्वनिपातानियमात् प्रथमप्राप्तमंकमित्यर्थः, परितेजसुपरित्यज । यस्य पूर्वाकस्य यत्परांकयोजने पूर्वप्राप्तोऽको निष्यद्यते तस्य तत्र योजनं न कार्यमिति द्वितीयो नियम इत्यर्थः । एवं प्रकारेण वर्णानामिति शेषः, पताका किन्नसु- पताकां कुरु इति योजना।
अत्र यः पूर्वीकः यत्र परांके प्रथमं योज्यते तप्पो चो]जननिःपना अंकाः तत्परांकादधोऽधः स्थाप्या इति नियमो गुरूपदेशादवधारणीयः। पूर्वीकस्य सर्वपरांकयोजने येउँका निःपाते तैः कोष्ठपंकि ध्या।
For Private and Personal Use Only