________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
तांतरालस्थितमिति यावत् कोष्ठकं, सिर दुइ अंके - शिरोऽकद्वयेन, अवहट्ठभाषायां पूर्वनिपातानियमात्, भरु-पूरय पूरणीयकोष्ठशिरःस्थांकद्वययोजननिष्पन्नांकेनाद्यंतांतरालस्थितं कोष्ठं पूरणीयमित्यर्थः । एवम्प्रकारेणेति शेषः, मेरु-मेरुः, णिसंक-निःशंक निश्चयेनेति यावत्, सूई-सूच्यते निर्मों यते इति योजना।
अथैतन्निर्माणप्रकारो लिख्यते । प्रथम वामदक्षिणयोरेकागुलमायतमू धोरेखाइयं विनिर्माय सत्यार्श्वयोः ऋजुरेखया मेलनौयमेवमेकं दीर्घ कोष्ठं विधाय तत्र उर्द्धरेखामध्यदेशमारभ्याधोरेखामध्यदेशपर्यंतमेकामजुरेखां दत्त्वा कोष्ठदयं कल्पनीयं, तत्र तत्र प्रत्येकमेककोडेको देयः, तत्र प्रथममिदं मेरुखरूपं प्रथमकोष्ठस्यैकांकेन एकवर्णवृत्त एकगुरुरेको भेदः, द्वितीयकोष्ठस्यैकोकेन च एकलघुरेको भेदः इति निर्धारितैकत्वसंख्याकगुरुलघयुक्तत्वरूपनिर्णेतखरूपैकवर्णभेदनिष्ठेकत्वसंख्या प्रतीयते । कोष्ठद्वयस्थैकांकदयपरस्परयोजननिःपनद्वितीयांकेन चैकवर्णवृत्तभेदस्य द्वित्वरूपा समस्ता संख्या प्रतीयते, दूतीयं कोष्ठदयात्मिका प्रथमा एकवर्ण मेरुपंक्रिः ।।
एवमेतत्पंत्यधोरेखां पार्श्वयोर्मनाम्वर्द्धयित्वा अंगुष्ठमा मध्यदेश त्यता अधस्तादेका रेखा उपरितनरेखासमाना कार्या, पार्श्वयोश्च ऋजुरेखया मेलनं कार्यमेवमेकमायतं कोष्टं विधाय तत्र उपरितनप्रथमकोष्ठस्थाधोरेखामध्यदेशमारभ्याधस्तनरेखापर्यंतमेका जरेखा देया, ततः द्वितीयकोष्ठाधोरेखामध्यमारभ्याधस्तनरेखापर्यंतमेका ऋजुरेखा देया, एवं कोष्ठत्रयं मंपाद्य प्रथमान्यकोष्ठयोः प्रत्येकमेकैकोऽको देयः, अंतरालवत्तौ च द्वितीयः कोष्ठः शिरः
For Private and Personal Use Only