________________
Shri Mahavir Jain Aradhana Kendra
४३४
www.kobatirth.org
प्राकृतपैङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पिंगल: जंप – जल्पति ॥ श्रचेदं तत्त्वं - चतुरचरस्य प्रस्तारक्रियया षोड़श भेदा भवति, तत्र चतुर्गुरुः प्रथमः स चेंद्रवज्या पादचतुष्टयज्ञापकस्तत्र प्रतिचरणं प्रथमगुरोरुपादानात् तत्रैकैको गुरुरिंद्रवज्राया एकेक चरणज्ञापक इति हृदयं । चतुर्लघुयांतिमः स चोपें - द्रवञ्चापादचतुष्टयज्ञापकस्त [के ] को लघुरूपेंद्रवज्राया एकैकचरणज्ञापक इति सहृदयैकगम्योऽर्थस्तत्र प्रतिचरणं प्रथमलघोरुपादानात् । एवं चावशिष्टा मध्ये चतुर्दशभेदास्तदनुमाराच्च चतुर्दशोपजातयोभवंति । तथाहि चतुरचरस्य द्वितौयप्रस्तारे प्रथममेको लघुस्तदनन्तरं च त्रयो गुरवो भवति, तथा चोपेंद्रवज्जायाः प्रथमचरण: चयकेंद्रवज्जाया एवं मिलिला प्रथमो भेदः । चतुरचरस्य तृतीयप्रस्तारे प्रथममेको [ गुरुस्तत एको] लघुस्तदनंतरं गुरुदयं, तथा चेंद्रवज्ञ्चाया: प्रथमचरणो द्वितीयश्चोपेंद्रवज्रायाः तृतीयचतुर्थी च पुनरिंद्रवज्राया एवं मिलिला द्वितीयो भेदः । चतुरचरस्य चतुर्थप्रस्तारे प्रथमं लघुदयं तदनंतरं गुरुद्वयं भवति, तथाच प्रथमद्वितीयौ चरणौ उपेंद्रवज्जायाः तृतीयचतुर्थी चेंद्रवज्राया एवं मिलित्वा तृतीयो भेदः । एवमग्रेऽपि सुधीभिरवधेयमित्यस्मात्तातचरणोपदिष्टः पंथाः । (E).
११८ । अथासां चतुर्द्दशभेदानयनप्रकारमाह चउरि[]ति । चतुरचरस्य प्रस्तारं कुरु, इंद्रवज्जोपेंद्रवज्योर्गुरुलघु बुध्यख । मध्ये चतुर्द्दश भवंति, उपजातिं पिंगलो जल्पति कौर्त्ति बेलायां ॥ कोर्त्तिः प्रस्तारः, मध्ये – सर्वगुरुसर्वलघुप्रस्तारयोरंतराले । (G).
[Vide Ghosha's Compendium, Introduction, p. xix, para 45.—Ed.]
For Private and Personal Use Only