________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
प्राकृतपेशलम् ।
२०३ | इदमेव संक्षेपेणाह । द्वात्रिंशन्मात्रा अन्ते सगणमुत्थापय । सर्व्वलघवो यदि गुरुरेको वा धौ वा पादे ॥ (0).
२०३ । श्रथैनमेवार्थं गाहच्छंदसा स्पष्टयति बत्तीसेति । मनो[जल] हरणच्छंदसीत्यध्याहारः । बत्तौस होद्र मत्ता - द्वात्रिंशद्भवंति मात्रा:, अंते सगणा ठाबे [हि] - अंते सगणं स्थापय, कर्त्तव्यासु द्वात्रिंशन्मात्रासु अंतिमं मात्राचतुष्टयं सगणस्वरूपं कार्यमित्यर्थः, पाएहि - पादेषु श्रादौ सब्ब लड - सर्वे लघवो भवंति, यदि चेदेकः गुरु बेबि – द्वौ वा गुरू भवतस्तदा न दोष इत्यर्थः, तथाच सप्तदिजगणानंतरं सगणः कार्यः, अथवा षट् द्विजगणाः, तेषामादौ ते मध्ये वा एकः गुर्वादिर्मध्यगुरुर्वा गणः कार्यः, सर्वेषामते च सगणो देय इति फलितार्थः । श्रतएव उदाहरणे चतुर्थ चरणे रबीरेति षष्ठो जगणो दत्त इति द्रष्टव्यम् । (E).
२०३ । पुनः प्रकारांतरेणाह ॥ बत्तौति ॥ द्वात्रिंशद्भवंति मात्रा: अंते सगणं स्थापय । सर्वे लघवो यदि गुरुरेको वा द्वौ वा पादे ॥ सर्वे लघव एव कार्याः कदाचिगुरुः कृतखेदेको दावित्यर्थः ॥३॥ (G):
२०४ । उदाहरति । खुलुकौति श्रश्वगतिविशेषानुकरणं, यया गत्या महौं खुरेण चोदिला रङ्गेण तुरङ्गखलतीत्यन्वयः । बलगेति [?] शब्दानुकरणं, बलगं [?] दत्त्वा, घर्धरः चुद्रघण्टिका । टटटा इति धावदश्वचुर शब्द विशेषानुकरणं, तादृशशब्दं ददतः टापा: चुराघाताः पतन्ति घृष्टं भवति तुरगधावनं । ठ ठ ठेत्यनुकरणं, चमत्कृतं चतुर्दिशं चामरे, द्रपु द्रह्णकि द्रण द्रणिति चरणशब्दविशेषानुकरणं, चलति पदातिघटा, घुणुकि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only