________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२७५
१६७ । चूतिकाला यदि ददासि किमु दोहोपरि मात्रा:] पञ्च । पदे पदेन्ते संस्थापय अर्द्ध कुसुमगणमन्तेऽपि ॥ संपूर्णदोहानन्तरं मात्रापञ्चकमिति। दूयं हि द्विपदी, तत्र दोहापूर्वार्धानन्तरं मात्रापञ्चकदाने एकः पादः, एवं द्वितीयेऽपि पञ्चकलः । कौदृश इत्यवाह कुसुमगण इति । लघ्वादिलघुद्दयान्तो गुरुरित्यर्थः । (C).
१६७ । अथ चुलिवालानामकं वृत्तं लक्षयति, जुलियालेति । दोहा उप्पर-दोहोपरि दोहायामिति यावत् मत्तहि पंचद् - मात्राः पंच यदि देह-दीयते, तदा चुलियाला कह [?] - चुलिपालो कथय । नचान] दोहायां किं प्रतिचरणे उत प्रतिदले वा क देयाः पंचमात्रा इत्यत आह, पत्र पत्र उप्परेति,- पदपदोपरि, अत्र पदशब्दो दलवाची उदाहरणानुरोधात्, तथाच एकैकदले इत्यर्थः, संठबहु-संस्थापयत पंचमात्रा इत्यनुषंगः । ननु सर्वलघुरूपा उत गुरुलघुरूपा चेति कौदृश्य एकैकदलेऽते प्रादौ वा स्थाप्या इत्यत श्राह, सुद्धेति, - शुद्धः कुसुमगण श्रादौ एको लघुस्तत एको गुरुस्ततो लघुदयमेतादृशो गण इत्यर्थः । अंतह-अंते दिनद-दीयते ॥ एवं च दोहाया एकदलाते यदि पंचमाचाः कुसमगणस्वरूपा दौयंते, तदा चुलिमालानामकं वृत्तं भवतीति फलितार्थः । (E).
१६७ । अथ चूलिका ॥ चुलौति ॥ चुलित्राला [?] यदि दौयते किं दोहाया उपरि मात्राः पंच । पदे पदे उपरि संस्थापय शुद्धं कुसुमगण[?]मंते दीयते ॥ एकोनत्रिंशन्मात्राः पदे पदे कार्यास्तन्मध्ये
For Private and Personal Use Only