________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
एकस्त्रिकलस्त्रयः पदातिकाश्चतुम्कलगणाः कार्याः, नौवा ज्ञात्वा, प्रथमपादे तु नरेन्द्रः किंवा विप्रश्वरमगणः । नरेन्द्रो जगणाः, विप्रचतुर्लघुः । अपरपदे हतीये पञ्चमे चान्ते दिमात्रो दिलघुस्तेन चरमो यः चतुष्कलस्तृतीयपञ्चमयोरुनः म भगण इति वदन्ति । समपादे द्वितीये चतुर्थ च वयश्चतुष्कलाः, तत्रान्तिमः सर्वलघुचतुर्थचरणस्यैकादशमात्रत्वात् चतुष्कलगणत्रयं [न] सम्भवत्येव, अतोऽन्तिमगणे लघुरेको विकर्षणीयः । वस्वित्यपि एतस्य छन्दमो नाम । नाम प्राकाश्ये । (C)..
१३४ । अथ रंडायां तावत्तावन्मात्रा तत्तच्चरणे देया इत्युक्त, तत्र विप्रा[न्या सप्रकारमाह बिसमेति । बिसम-विषमे पादे प्रथमे हतीये पंचमे चेत्यर्थः, श्रादौ तिकल संठबहु-विकलं स्थापय, ततश्च त्रिकलानंतरमित्यर्थः तिमि पाइक्क - बीन् पदातीन चतुष्कलानित्यर्थः करहु-कुस्त, पढम - प्रथमे पादे अंत - अते प्रथमपादांते इत्यर्थः परिंद कि बिप्प - नरेंद्र मध्यगुरूं जगणं किंवा विप्रं चतुर्लध्वात्मकं गणं कुरुतेति पूर्वणान्चयः, तथाच प्रथमे चरणे विकलानंतरं कर्त्तव्येषु त्रिषु चतुष्कलेषु हतीयश्चतुध्कलो जगणवरूपो विप्ररूपो वांते कर्तव्यः न तु पृथगिति हृदयं । अबर पत्र-परपादे विषमचरणगणविचारस्यैव प्रक्रांतत्वात्प्रथमादपरस्मिन् विषमे हतीये पंचमे च पादे इत्यर्थः वे मत्त-हे मात्रे द्वौ लघू इत्यर्थः, उदाहरणनुरोधादत्र मात्राशब्दो लघुवाचौ, अंते देये इत्यर्थः, तथाच हतीयपंचमकानंतरदेयेषु चतुष्कलेषु बतौयो गण: भगणो देय इति भावः तस्यैव दिलवंतत्वात्।
For Private and Personal Use Only