________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
१५३
लोहांगिनौ भवतीति शेषः, जत्थ - यच, एक - एकः, गुरु-गुरुः, होद-भवति मा हंसी। एवं यथा यथा वर्द्धते हारः गुरुः, तथा तथा यत्र यत् नाम, तत्र तत् नाम ज्ञेयमित्यर्थः । अयं भावः - यत्र षट्षष्टिलघवः मा लोहांगिनी, यत्रैको गुरुश्चतुःषष्टिलघवः मा हमो, यत्र द्वौ गुरू विषष्टिलघवः सा रेखा, एवं पूर्वभेदापेक्षया यथा उत्तरत्र भेदे एको गुरुवर्द्धते, लघुदयं च य[]वहीयते, तथा भेदा बोध्याः, ते च लिखित्वा प्रदश्यते । [Here a blank space has not been filled in.--Ed.]
अत्र यद्यपि नवमादयोऽप्यन्ये त्रयोविंशतिर्भदाः संभवंति बाधकाभावात्तथापि ते ग्रंथकता नोकाः, वस्तुतस्तु तेऽपि सुधौभिरूपनीयाः। तत्र च त्रिंशद्गुरवः षट् लघवो यत्र भवंति मोऽतिमो भेदः, प्रतिचारण]मेकादशमात्राणामुक्तत्वादेकादशतम एको लघुरवश्यं प्रतिचरणमंतेऽपेक्षित इति बोध्यम् । अत्र क्वचित् जत्थ गुरु चारि होद सा हंमौति पाठश्च - यत्र गुरुचतुष्टयं भवति सा हंसौ, एकगुरुमारभ्य यावत् गुरुचतुष्टयं वर्द्धते तावत्पर्यंत भेदचतुष्टयं मौसंज्ञकमित्यर्थः। अत्रायमाशयः। यत्र चरणषद्धे षट्पष्टिलघवः पतंति मा लोहांगिनौ, यको गरुश्चतुःषष्टिर्लघवः [Here apparently something has been omitted.] यत्र च षगरवचतु:पंचाशलघवः यत्र सप्त गुरवः दिपंचाशल्लघवः [Here something has been left out] एते चत्वारो भेदा रेखासंज्ञकाः २ । यत्र च नव गुरवः अष्टचत्वारिंशलघवः, यत्र दश गुरवः षट्चत्वारिंशाल्लघवः, यत्र चैकादश गरवः चतुश्चत्वारिंशलघवः, यत्र च द्वादश गुरवः द्विचत्वा
For Private and Personal Use Only