________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रावृत्तम्।
१२६
त्रिंशन्माचा उनाः, एवं चात्रापि पूर्वार्द्ध षष्ठो गण एकलयात्मको देय उत्तरार्द्धं च षष्ठी गणो जगणो नलध्यात्मको वा देयः, विषमे च जगणे न देय एवेति सुधौभिर्बोध्यम् । (E).
६६ । अथ बिगाहामाह ॥ बिग्गेति ॥ बिग्गा[गा]थायाः प्रथमदले सप्तविंशतिर्मात्राः । पश्चिमदले त्रिंशत् एवं जल्पितं पिंगलेन नागेन ॥ ६६ ॥ (G).
६७। उदाहरति । परिहर मानिनि मानं प्रेक्ष[व] कुसुमानि नौपस्य । तव कृते खरहदयो ग्रहाति गुटिकां धनुषि कामः ॥ खरहदयस्तौक्षणहदयः कदम्बकुसुमव्याजेन गुटिकाः कामो धनुषि ग्रहाति ॥ (C).
६७ । विगाथामुदाहरति परिहरेति । णौबस्म - नौपस्य कदम्बस्य कुसुमानि पेक्वहि - प्रेक्षख । किं तावतेत्यत आह तुज्झ कए इति । खरहिरो- कठिनहृदयो निर्दय इति थावत् कामो- कामः, धणुहि - धनुषि, गुडिया - गुटिकां, यद्दा गुडिअाधहि इत्येकं पदं, तस्य वटिकाधनुः गुटिकायुक्ता[क] धनुरित्यर्थः । गुलेलेल इति लोके ; गेन्ह[स] -रहा[]ति, तो मानं परिहरेत्यर्थः ॥ (E).
६७। यथा, परिहर मानिनि मानं प्रेक्षख कुसुमानि नौपस्य । युग्मकते खरहृदयो ग्रहाति गुटिका धनुषि किल कामः ॥ कदंबपुष्पगुटिकाः कामो धनुषि योजयतीत्यर्थः ॥ किलेति निश्चये ॥ ६७ ॥ (G).
For Private and Personal Use Only