________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्।
५२ । अथ गाहलक्षणमाह । पूर्वार्द्धं उत्तरार्द्ध सप्तोत्तरविंशमात्राः २७। षष्ठगणेत्यादिमध्ये गाहू मेरोरेव युगलं ॥ तेन पूर्वार्द्ध एको लघुरेव षष्ठो गणः, एवमुत्रात्तरार्द्धऽपि । प्रथमपादे द्वादश मात्रा द्वितीये पञ्चदशति मिलित्वा मप्तविंशतिमात्राः पूर्वार्दू, एवमुत्तरार्द्धऽपि, अयच्च विशेषः पादमध्येस्थितषष्ठगणे मेरोरेव युगलं, मेरुपदेन लघुरुच्यते, मिलित्वा लघुयुगलं, तेन पूर्वार्द्ध एकलघुरेव षष्ठो गणः, एवमुत्तरार्द्धऽपि। एतादृशलक्षणं यत्र मा गाहरित्यर्थः ॥ (C).
५२ । अथ गाहप्रभृतिमप्तच्छंदःसु सामान्यतो मात्रा उद्दिश्य विशेषतस्तानि लिलक्षयिषुः प्रथमं गाझं लक्षयति पुब्बद्धे इति । यत्र पुष्बद्धे उत्तद्धे- पूर्वार्द्ध उत्तराई, पत्रमझझे- पादयोर्मध्ये पूर्वार्द्ध प्रथमद्वितीयपादयोर्मध्ये, उत्तरार्द्ध हतीयचतुर्थयोः पादयोर्मध्ये इत्यर्थः । मत्तग्गल - मताधिकाः, मत्त बौसादं - मात्राः विंशतिः, सप्तविंशतिर्मात्रा इत्यर्थः, पतंतौति शेषः, छमगण -- षष्ठो गणः, मेरुब्ब जुलाई- मेरोः युगलं, मेरुलघुस्तद्युगलमित्यर्थः। पूर्वार्द्ध उत्तराई च प्रत्येकं गुर्वताः सप्तगणा: स्थाप्यास्तत्र षष्ठस्थाने एको लघ्वात्मको गणः स्थाप्यः, अन्यत्र चतुर्माढकइत्यर्थः, एवं च षणां चतुर्मावकगणानां चतुर्विंशतिर्मात्राः, एका च मात्रा षष्ठस्थानस्थलघोर्माचादयं चांतस्थगुरोरेवमत्र सप्तविंशतिमात्राः पूर्वार्द्ध उत्तरार्द्धं च प्रत्येकं पतंति, तहाइनामकं छंदइति निर्गलितार्थः । (E).
For Private and Personal Use Only