________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
प्रकरण समुच्चयः
मोक्षोपदे संसारवि कदेवस्वर
॥२१॥
OCOCCOCALSOCTOCOGEOGR
शल्यैर्दुरुद्धरैः । विषादवह्नावलाय, निपतन्त्यत्र केचन ॥ २६ ॥ कण्ठलोठितवादित्रा, हठतोऽकुण्ठतापराः। रङ्गस्थानेऽवतार्यन्ते, दीर्यमा| णाङ्गिका इव ॥ ॥२७॥ स्तम्घरम(हस्ति।तुरङ्गादिवाहनाकारधारिणः । दयाबाह्यं च वाह्यन्ते, केऽपि मृण्यादिघट्टनैः ॥२८॥ चण्डालाकृतयः केचिच्चण्डदण्डैर्निपीडिताः । स्वप्नेऽप्यलब्धसंचाराः, पुरन्दरसभादिषु।।२६।। स्वर्गारच्युति विलीनं च, गर्भजम्बाल(कादव) लालनम् । पश्यन्तो यत्र भिद्यन्ते, तद्वततनवः सुराः ॥ ३० ॥ इति देवगतिदुःखं ॥ यथेह लवणाम्भोभिः, पूरितो लवणोदधिः । शारीरमानसैर्दुःखैरसङ्ख्येयैस्तथा भवः ॥३१॥ किश्चित्स्वप्नाप्तधनवन्न तथ्यमिह किंचन । असारं राज्यवाज्यादि, तुषकण्डनवत्तथा ॥ ३२ ॥ तडिदाडम्बराकारं, सर्वमत्यन्तमस्थिरम् । मनोविनोदफलदं, बालधूलीगृहादिवत् ।। ३३ ॥ यश्च कश्चन कस्यापि, जायते सुखविभ्रमः । मधुदिग्धासिधाराप्रपासवन्नैष सुन्दरः ॥३४॥ इति संसारस्वरूपदुःखं । अत एव विरज्यन्ते, नीरजोम्ज्वलमानसाः। रोगादिव भुजङ्गाद्वा, संसारावासतोऽमुतः ॥३५॥ यतन्ते च सदानन्दसुधानीरधये उधिकम् । परमब्रह्मसंज्ञाय, पदाय विगतापदे ।। ३६ ॥ स्मरज्वरज्वरा मुख्या, दोषा भवभुवोऽत्र ये । सर्वथा ते न सन्त्येव, यत्र तत् परमं पदम् ॥ ३७॥ सर्वकल्याणसंयोगः, सर्वमङ्गलसंगमः। सर्वोपादेयसीमा च, यतस्तन्मृग्यते बुधैः ॥ ३८ ॥ यथाऽमृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे ॥ ३९॥ तीएर्णप्रायभवाम्भोधि—तसम्मोहकश्मलः। कश्चिदेव महाभागो, भवेत्सिद्धिमुखोन्मुखः ॥४०॥ इति मुक्तिसुखस्वरूपं ॥ चौराकुलपथप्राप्तो, यादृशो दुर्गसंग्रहः। गम्भीरसलिलेऽम्भोधौ, द्वीपाप्तिरथवा यथा ॥४१॥ महाशैलगुहायां वा, ज्वलद्रश्मिर्माणियथा । बिवेको निर्मलस्तद्वत्पुण्यभाजां विजृम्भते ॥४२॥ इति विवेकस्वरूपं ॥ क्रियाभिर्ज्ञानमूलाभिर्मोक्षोऽक्षेपेण सिध्यति । ताः पुनर्देवतापूजागुरुसेवादयो मताः ॥४३॥ विशुद्धकेवलालोकविलोकितजगत्त्रयः । प्रातिहार्यमहापूजाजनितासमविस्मयः ॥४४॥ समस्तजगतामेकं, मौलिमाणिक्यमुज्ज्वलम् । अर्हन्नेव सतां देवो, देवतागुणभूषितः॥४५।। इति देवस्वरूपं ।।
।।२१।
For Private and Personal Use Only