________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- संगम लब्ध्वा शाश्वतानंदपरंपरां प्राप्नुवंति. कषायातिलोलकल्लोलमालाव्याकुले संसारसागरे निः । चरित्रं
शरणं अमनपराणां संबंधिवर्गोग्रग्राहकुलाकुलहृदयानां प्राणिनां सुगुरूपदिष्टो जिनधर्म एव वरप्रवह णमिव तारणे समर्थो भवति. इत्यादिजिनगुरूपदेशामृतं निपीय सुगतागमोपदेशं विषमिव मन्य मानः सुंदरः स्वसुहृदुपेतस्तत्रोपवने नानाविधवसंतोत्सवक्रीमां विधाय दिनावसाने यानारूढः स्वकीयं गृहं समाजगाम. जोजनानंतरं परमस्नेहपरः पिता सुंदरमपृचत, हे वत्स ! त्वयाद्य वसंतोत्सवाय पु. पावतंसोद्यानं गतेन तत्र किं चित्रं दृष्टं ? अथ जनकाशानंगनीरुतया यावत्स किंचिन्न जल्पति, तावत्तैस्तत्सुहृद्भिर्जनमुन्युपदिष्टोपदेशश्रवणवृत्तांतो निरूपितः. तत् श्रुत्वा कोपानलातितप्तहृदयो जयघोषो निजाननकुहरा धूमनिभां वाचमुवाच, रे दुष्ट ! बहुशो निवारितेनापि मया कथमिव त्वया पाखंडिजनगुरूपदेशः श्रुतः? ततो लभस्वाधुनैव मदाझानंगफलं? युक्त्वा तेनासौ यष्टिमुष्ट्या दिनिस्तामितोऽपि सुंदरो मनागपि नो कुपितः. ततो जयघोषो जगौ रे दुष्ट! अतःप्रभृति त्वया मदीयाज्ञां विना कदापि वसंतोत्सवाय न गंतव्यं. सुंदरोऽपि किंचिदप्युत्तरमदत्वैव स्वकीयशयनावासे | ययौ. गतनिद्रोऽसौ तत्र निजचेतसि चिंतयति, नूनमयं जिनधर्मः सर्ववांनितार्थप्रदानेऽचिंत्यचिंता.
For Private And Personal Use Only