________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| मन्मश्रोन्मथितसहस्रकरकरनिपातं निवारयन्निव रेजे. माधवीलतामंडपे हेलांदोलितांदोलनोपवि- । चरित्रं
शाया मंदमंदं वहन्मलयानिललहरीमालाचांतघर्मोनवस्वेदबिंदुकदंबकायाश्चर्वितवरकस्तुरीकर्पूरपूरपू. । तांबलदलाविर्जुतसुरनिसुरजीकृताखिललतामंडपायाः कस्याश्चित्प्रमदायाः सुधाकरकरनिकरगौरं मु. खं वरसुगंधोपेतं सादादिकसितं कमलकुसुममेव मन्यमानः पंचशरशरनिकरनिपातपराभूतकामुक श्वाविरतझंकारास्वमिषेण चाटुपरो भ्रमरो मुखचुंबनानिलाषेणानितो मन सत्येव तया कोमल कराव्यां निवार्यतेस्म.
एवंविधं कमनीयं वसंतं वनमध्ये समागतं विज्ञाय कोकिलकलवाहूता श्वेतरेऽपि युवनाग राः स्वस्वकामिनीसुहृद्गणोपेताः क्रीडोत्सवचिकीर्षया सरसरसालादितरुनिचयालंकृतेष्वरण्यनिकुंजपुं. जेषु स्पंदनादिवरवाहनारूढाः प्रययुः. स्वमित्रैः प्रेर्यमाणः सुंदरोऽपि वसंतोत्सवाभिलाषेण पुष्पावतं. सोद्याने जिगमिषुर्निजजनकस्याज्ञामयाचत. जयघोषोऽवादीदो पुत्र! सुखेनैव त्वया वसंतोत्सवाय गंतव्यं, परं तत्र त्वया बुधधर्मानुयायिभिर्विनान्यधर्मिजनानां संगो न विधेयः. पित्रैवं शिक्षितः सुं. दरोऽथ स्वसुहृद्गणोपेतो वरयानारूढः क्रीडार्थ पुष्पावतंसोद्याने प्रययौ. तत्र विविधवर्णोपेतानेककु.
For Private And Personal Use Only