________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी।
॥ अथ चतुर्थः सर्गः प्रारभ्यते ॥ चरित्रं
अथ केशिकुमारगणधरेंडोऽपि तयोरग्रे धर्मोपदेशं ददौ. ये भव्या दुत्तरसंसारार्णवयानपात्र निभानां जिनानामर्चनं कुर्वति, ते देवपालनरेंद्रवन्नियतं कल्याणमाला लनंते. एवं मुनिवरोक्तं व ६१
चनं श्रुत्वा धर्माचरणोत्सुकमानसः प्रदेशिवपालो वांजलिर्जगो, हे भगवन् ! कोऽसौ देवपालः ? कथं तेन जिनार्चनं कृतं? का च कल्याणमाला तेन लब्धा ? सकलमपि तच्चरित्रं कृपां विधाय म. दग्रे प्रकटीकृत्य मामपि धर्माचरणविधौ नियोजयध्वं ? गणधरेंडोऽपि नृपं तचरित्रश्रवणोत्सुकं विझाय जगाद, हे राजन् ! शृण
नबललवणार्णवसलिलकल्लोलमालापदालिताखिलकमले बृद्दीपे चरतचक्रवर्यककीर्तिस्था. ने चारते क्षेत्रे मध्यखंडेऽनेकजिनागारपरिमंडिता मथुराख्या नगरी वर्तते. तत्र रिपुगणोन्मत्तमा तंगकेसरिसन्निनः सिंहरयाभिधो नृपः पुत्रवन्निजप्रजां पालयतिस्म. तत्कोमलकरकमलनिवासैकला लसा कमलालयोन्मुक्तचापल्या कदाचिदपि तन्मदिरं न जहातिस्म. तस्यां नगर्या वणिक्कलवंशमुक्तामणिसन्निनो नृपतिमान्यो बुधिविनिर्जितसुरगुरुर्जिनधर्मपरमादरपरो नित्यं जिनार्चार्चनतत्परो
For Private And Personal Use Only