________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रदेशी- वासे समाजगाम. ततोऽसौ स्थादुत्तोर्य गृहीतजिनशत्रनृपदत्तकुंडलोपहारो नमीशमंदिरे गत्वा स. !!
भास्थितं निजस्वामिनं प्रदेशिनृपं प्रणम्य तन्मित्रकुशलोदंतनिवेदनपूर्वकं तहतकुंडलोपहार तत्पा
गिपंकजे मुमोच. तेजःस्तोमतिरस्कृतभास्करनिशाकरविं तत्कुंडलयुग्मं निरीक्ष्य प्रदेशिनृपोऽपि सा. || नंदं वचेतसि चमत्कृतः स्वकीयं सौहार्द सफलं मन्यमानो बहसन्मानं चित्रसारथये ददौ.अथ न
पविसृष्टश्चित्रसारथिः स्वमंदिरे समागत्य कृतस्नानदेवार्चनभोजनश्चर्वितसुरभितांबूलो वस्त्रानुपणनरभूषितांगो हावभावाभिनयाद्यलंकृतं विविधवाजिनवजमंमितं नृत्यं विलोकयन सुखं तस्थौ. अय कियदिनानंतरं समितिगुप्त्युपेतवरचरणालंकारालंकृतपंचशतविनयोपेतविनेयपरिवारपरिवृतः श्रीकेशिकुमारगणधरेंडोऽपि ततो विहृत्य धर्मोपदेशसुधाधारघरवोरणीनिरनेकभव्यजनक्षेत्राणि सिंचन,
खकीयं वृषं च पुरस्कृत्य नव्यानां कोमलाईहृदयालवालवलयेषु बोधिवीजानि वपन्, मिथ्यात्वरजः पुंजमुपशामयन, निजचरणन्यासैश्चानेकजनपदनगरारण्यानि पवित्रयन्, धौतजगदझानकश्मलमलः क्रमेण विहरन् श्वेतविकोपांतस्थमृगवने समागत्य समवसृतः. तदा वनपालोऽपि स्मृतचित्रसारथिव चनोऽतीवहृष्टहृदयो गणधरं सपरिवारं विनयेनानम्य शय्यापट्टफलाकादिमुनियोग्योपकरणैर्व्यमंत्रयत्. ।।
For Private And Personal Use Only