________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकः
टीकाद्वयोपेतः॥
॥२९॥
सामान्येनायुःस्वरूपं प्रतिपादयतिदुक्खं न देइ आउं, नेव सुहं देइ चउसुवि गईसु । दुक्खसुहाणाहारं, धरेइ देहडियं जीवं ॥ ३॥
व्याख्या-दुःखं' असातावेदनीयं 'न ददाति न प्रयच्छति 'आयुः' कर्म, तर्हि सुखं दास्यति ? इत्याह'नैव सुखं ददाति' न प्रयच्छति । 'चतसृष्वपि गतिषु' नारकतिर्यग्नरामरलक्षणासु दुःस्वसुखयोः 'आधार' आश्रयं 'धारयति' अवस्थापयति 'देहस्थितं' शरीराश्रितं 'जीवं' प्राणिनम् । इति गाथार्थः ।। ६३॥
___ नरकायुष्कखरूपमाह(पारमा०) 'दुःखं' असातं न ददाति 'आयुः' कर्म नैव च सुखं, सुखदुःखदाने सातासातरूपस्य वेदनीयस्यैव समर्थ|त्वात् । आयुस्तु दुःखसुखाधारभूतं जीवं देहस्थितं धारयति, एतावत एव सामर्थ्यस्य सद्भावात् । इति गाथार्थः ॥ ६३ ॥
सम्प्रति नरकायुः प्रतिपादयन् हडिदृष्टान्तं भावयतिजं नेरइयं नारयभवम्मि तहिं धरइ उबियंतंपि।जाणसुतं निरयाउं, हडिसरिसो तस्स उ विवागो॥६॥ । व्याख्या-'यत्' यस्मात् 'नारकिक' नरकोत्पन्नप्राणिनं 'नारकभवे' नारकाणां भवो नारकभवो नारकोत्पत्तिस्थानं तस्मिन्, 'त' नारकं धारयति' अवस्थापयति उद्विजन्तमपि चेतस्युवेगं कुर्वाणमपि 'जानीहि विडि, तत् 'नरकायुः नरकेषु प्राणिनोऽवस्थितिरूपम् । हडिः प्रतीता तया सदृशस्तुल्यस्तत्तुल्या, 'तस्य तु' पुनर्नारकायुष्कस्य 'विपाकः' अनुभवः । यथा हि राज्ञा हडौ क्षिप्तश्चौरादिहृदयेनोवेगं कुर्वन्नपि तया
॥२९॥
For Private And Personal Use Only