SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मविपाकः ॥ २८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरूपगन्धाः मलिना रेणुगुण्डिताः तेषु च सहाभ्यन्तरबाह्यैर्वर्तन्त इति साभ्यन्तरबाह्यानि तेषु च, द्रवन्ति क्षरन्ति च तान् तान् पर्यायानिति द्रव्याणि (तेषु), आभ्यन्तराणि रसासृगादीनि बाह्यान्यशुच्यादीनि, चकारादपरेषु च तथाविषद्रव्येषु 'येन' कर्मणा 'व्यलीकं' चित्तस्यान्यथात्वं 'जीवे' जीवस्य 'उत्पद्यते' जायते 'सा जुगुप्सा' सैव जुगुप्सा मोहनीयं, नान्या । इति गाथार्थः ॥ ६० ॥ कियद्दरं हास्यादीनामनुवृत्तिर्भवति ? इत्याह ( पारमा० ) दुर्गन्धमलिन केष्वाभ्यन्तरबाह्येषु द्रव्येषु, आभ्यन्तराणि रसासृगादीनि बाह्यान्यशुच्यादीनि तेषु येन कर्मणा व्यलीकं मुखमोटननासाकुञ्चनादिकं जीवस्योत्पद्यते सा जुगुप्सा । इति गाथार्थः ॥ ६० ॥ हास्यादिषस्य गुणस्थानकेषूदयमाह छण्हवि होई विवागो, मिच्छाओ जा अपुष्वकरणस्स । चरमसमउत्ति परओ, नत्थि विवागो उ छण्हंपि ॥ ६१ ॥ व्याख्या- ' षण्णामपि' हास्यादीनां 'येन' कारणेन 'विपाकः' उदयो 'मिथ्यात्वात्' उक्तखरूपात्सकाशाद्यावत् 'अपूर्वकरणस्य' निवृत्तिबादरगुणस्थानकस्याप्राप्तपूर्वकस्य करणस्य वा 'चरमसमय:' अपंश्चिमसमयः, 'इतिः' समाप्तौ । 'परत:' अग्रतो 'नास्ति' न विद्यते 'विपाकस्तु' अनुभवस्तु 'षण्णामपि' हास्यादीनाम् । इति गाथार्थः ॥ ६१ ॥ १ "छहवि जाण" इत्यपि पाठः । व्याख्यांकारेण तु - " जेण” इत्येतत्पाठानुसारेण व्याख्यातम् । For Private And Personal Use Only टीकाद्वयोपेतः ॥ ॥ २८ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy