________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SEARCANER
दिष्टेष्वपि जीवादितत्त्वेषु संशय उपजायते, यथा न जाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यमुतान्यथेति ४ । अना भोगिकं यदनाभोगेन निवृत्तम् , तच्चैकेन्द्रियादीनामिति ५। तथा द्वादशविधाऽविरतिः। कथम् ? इत्याह-'मणइंदियअनियमो छकायवहो' इति पश्चानामिन्द्रियाणां षष्ठस्य च मनसः स्वस्वविषये प्रवर्तमानस्य यदनियमनं अनियन्त्रणम् ।। तथा षण्णां पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां कायानां वधो हिंसा इति । तथा कषायाः प्रागुक्तशब्दार्थाः पञ्चविंशतिः। कथम् ? इत्याह-पोडश नव चेति। तत्र क्रोधमानमायालोभा प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च ततस्ते षोडश भवन्ति । तत्र पारंपर्येण भवमनन्तमनुबध्नन्तीत्येवं शीला अनन्तानुबन्धिनः, उदयस्थानाममीषां सम्यक्त्वविघातकृत्त्वात् । तथाऽल्पमपि प्रत्याख्यानमावृण्वन्तीत्यप्रत्याख्यानावरणाः, तदुदये लेशतोऽपि प्रत्याख्यानानुत्पत्तेः। प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः। तथा परीषहोपसर्गादिसंपाते चारित्रिणमपि सम् ईषज्ज्वलयन्तीति संज्वलनाः । पश्चानुपूर्व्या च स्वरूपमेतेषामेवम्-"जलरेणुपुढविपवयराईसरिसो चउबिहो कोहो । तिणिसलयाकट्ठठियसेलत्थंभोवमो माणो ॥ १ ॥ मायावलेहिगोमुत्तिमिंढसिंगघणवंसमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसारिच्छो ॥२॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेयवो भणिया ॥३॥" इति । तथा वेदत्रिकहास्यादिषट्टरूपा नव नोकषायाः । तेच कषायसहचारित्वादुपचारेणेह कषाया इत्युक्ताः। तत्र वेदत्रिकं प्रागनिर्दिष्टस्वरूपम् । हास्यादिषटुं हास्यरत्यरतिभयशोकजुगुप्सालक्षणम् । तत्र सनिमित्तमनि
१ "नामेषाम्" "नामेतेषाम्" इत्यपि ।
For Private And Personal Use Only