________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाविति कर्मधारयः, कयोः ? इत्याह- 'योग्ययोगिनोः' सयोग्ययोगिकेवलिगुणस्थानकयोर्भवत इति शेषः । इति गाथार्थः ॥ ७१ ॥
इत्युक्ता उपयोगा गुणस्थानकेषु । साम्प्रतमिहैवागमोक्तानामपि केषांचिदर्थानामनधिकृतत्वमाह( मल०) 'मिश्र' मिश्रगुणस्थानके त एव पूर्वोक्ताः षडुपयोगा अज्ञानमिश्रा द्रष्टव्याः, तस्योभयदृष्टिपातित्वात् । केवलं कदाचित्सम्यक्त्वबाहुल्येन ज्ञानबाहुल्यम्, कदाचिच्च मिथ्यात्वबाहुल्येनाज्ञानबाहुल्यम्, समकक्षतायां तूभयोरपि समतेति । अस्मिंश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् । तथा प्रमत्तादिषु क्षीणमोहपर्यन्तेषु सप्तसु गुणस्थानकेषु त एव पूर्वोक्ताः षड् उपयोगाः 'समणनाणा' इति समनःपर्यायज्ञानाः सन्तः सप्त भवन्ति न शेषाः, मिथ्यात्वघातिकर्मक्षयाभावात् । तथा केवलिकज्ञानदर्शनलक्षणौ द्वावुपयोगौ सयोगिकेवलिनि अयोगिकेवलिनि च गुणस्थानके भवतो न शेषा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवलज्ञानदर्शनोत्पत्तेः । “नमि उ छाउमत्थिए नाणे" इतिवचनात् ॥ ७१ ॥
तदेवमुक्ता गुणस्थानकेषूपयोगाः । साम्प्रतं यदिह प्रकरणे सूत्राभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरणतो नाधिकृतं तद्दर्शयन्नाह - सासणभावे नाणं, विउब्विगाहारगे उरलमिस्सं । नेगिंदिसु सासाणो, नेहाहिगयं सुयमयंपि ॥ ७२ ॥ ( हारि०) व्याख्या - 'सासादनभावे' सासादने सति ज्ञानमित्यादि 'श्रुतमतमपि' सिद्धान्ताभिप्रेतमपि
For Private And Personal Use Only