SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा(मल.) औदारिकवैक्रियचतुर्विधवाग्योगचतुर्विधमनोयोगलक्षणा दश योगा मिश्रे सम्यग्मिथ्यादृष्टौ भवन्ति न शेषाः । तथाह्याहारकद्विकस्यासंभवः पूर्वोक्तयुक्तेरेव, कार्मणशरीरं त्वपान्तरालगतौ संभवति, अस्य च मरणासंभवेनापान्तरालगत्यसंभवस्ततस्तस्याप्यसंभवः, अत एवौदारिकवैक्रियमिश्रेऽपि न संभवतः, तयोरपर्याप्तावस्थाभावित्वात् , तस्यां चावस्थायां सम्यग्मिथ्यात्वाभावात् । ननु च मा भूदेवनारकसंबन्धि वैक्रियमिश्रम् , यत्पुनर्मनुष्यतिरश्चां सम्य-13 |ग्मिथ्यादृशां वैक्रियलब्धिमतां वैक्रियकरणसंभवेन तदारम्भकाले वैक्रियमिश्रं भवति तत्कस्मान्नाभ्युपगम्यते ?, उच्यते, तेषां वैक्रियकरणासंभवतोऽन्यतो वा यतः कुतश्चित्कारणादाचार्येणान्यैश्च तन्नाभ्युपगम्यते तन्न सम्यगवगच्छामः, तथाविधसंप्रदायाभावात् , एतच्च प्रागेवोक्तमिति । त एवानन्तरोक्ता दश योगा वैक्रियमिश्रयुताः सन्त एकादश 'देशयते'। देशविरतिगुणस्थानके भवन्ति, अम्बडस्येव वैक्रियलब्धिमतो देशविरतस्य वैक्रियारम्भसंभवात् । तथा 'प्रमत्ते' प्रमत्तगुण-14 स्थानके त एवानन्तरोता एकादश योगाः 'साहारद्विकाः' आहारकद्विकसहिताः सन्तस्त्रयोदश भवन्ति ॥ ६७॥ एक्कारस अपमत्ते, मणवइआहारउरलवेउवा । अप्पुवाइसु पंचसु, नव ओरालो मणवई य ॥ ६८॥ | (हारि०) व्याख्या-एकादश योगाः, क ? इत्याह-अप्रमत्ते, कीदृशास्ते? इत्याह-मनोवागाहारकोदारिकवैक्रियाणीति इन्द्वः। तत्रौदारिकमिश्रमपर्याप्तकतिर्यमनुष्याणां केवलिसमुद्धाते च । कार्मणं तु विग्र-2 हगतौ तिर्यगादीनां केवलिसमुद्धाते च । तथाऽऽहारकमिदं प्रमत्तयतेः । वैक्रियमिदं तु देवादीनामिति । For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy