________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पल्यामवस्थिताः परिपूर्णमापूरिता भवन्ति । ततः प्रतिशलाकापल्वमुत्पाव्यः निष्ठितस्थानात्परतः प्रतिद्वीपं प्रतिसमुद्र मेकैकं सर्पपं प्रक्षिपेत् यावदसौ निष्ठितो भवति । ततो महाशलाकापल्ये एका सर्पपरूपा शलाका प्रक्षिप्यते । ततः शलाकापल्यमुत्पाव्य प्रतिशलाकापल्यगतचरमसर्षपाक्रान्ताद्वीपात्समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति । ततः प्रतिशलाकापत्वे एका शलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाटयेत्, उत्पाट्य च शलाकापल्यगतच स्मसर्षपाक्रान्ताद्वीपात्समुद्राद्वा परतो द्वीपसमुद्रेष्वेकैकं सर्वपं प्रक्षिपेत्, तावद्गच्छेद् यावदसौ निःशेषतो रिक्कीमवति । ततः शलाकापल्ये प्रथमा शलाका प्रक्षिप्यते । ततोऽनन्तरोक्तानवस्थितपल्यगत चरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तत्पर्यन्तविस्तरात्मकोऽनवस्थितपल्यः कल्पयित्वा सर्वपैरापूर्यते । ततस्तमुत्पाव्य ततो निष्ठितस्थानात्परतो द्वीपसमुद्रेष्वेकैकं सर्वपं प्रक्षिपेद् यावदसौ निष्ठितो भवति । ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते । एवं शलाकापल्यः पूरणीयः । एवमापूरणोत्पाटनप्रक्षेपपरम्परया तावद्वक्तव्यं याव न्महाशलाकापल्यप्रतिशला कापल्य शलाकापल्यानवस्थितपल्याः सर्वेऽपि परिपूर्णशिखायुक्ताः समापूरिता भवन्ति । अत्र च यावन्तोऽनवस्थितपल्यशलाकापल्य प्रतिशला कापल्य सर्षपप्रक्षेपव्याता द्वीपसमुद्रा यावन्तश्च चतुष्पल्यसर्षपा एतावत्प्रमाणो सशिरेकरूपोन उत्कृष्टं संख्यातं भवति । तदुक्तम् — “पढमतिपलुद्धरिया, दीवुदही पल्लचउसरिसवा य । सबोवि एस रासी, रुवूणों परमसंखेजं ॥ १ ॥” इति । सिद्धान्ते च यत्र कुत्रचित्संख्यातग्रहणम्, तत्र सर्वत्रापि जघन्योत्कृष्टापान्तरालवर्तिमध्यमं संख्यातं द्रष्टव्यम् । तदुक्तमनुयोगद्वारचूर्णो सिद्धान्ते - " जत्थ जत्थ संखेज्जगगहणं तत्थ तत्थ
For Private And Personal Use Only