SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र नीललेश्याधिक्यं चतुर्थनरके सद्भावात् । कृष्णलेश्याधिक्यं षष्ठसप्तमनरकसद्भावात् । इति गाथार्थः॥ ६१ ॥ इति सेश्याखल्पबहुत्वमुक्तम् । तथा ( मल० ) स्तोकाः शृङ्कलेश्यावन्तः, वैमानिकेष्वेव देवेषु लान्तादिष्वनुत्तरसुरपर्यवसानेषु केषुचिदेव च मनुष्यस्त्रीपुंसेषु कर्मभूमिजेषु तिर्यक्स्त्रीपुंसेषु च केषुचित्सङ्ख्यातवर्षायुष्केषु शुललेश्यासंभवात् । ततः सङ्ख्येयगुणाः पद्मलेश्यावन्तः, सनत्कुमार माहेन्द्रब्रह्मलोकदेवेषु उक्तस्वरूपेषु च मनुष्यतिर्यक्षु पद्मलेश्याभावात्, सनत्कुमारादिदेवानां च लान्तकादिदेषेभ्यः सवेयगुणत्वात् । तेभ्योऽपि तेजोलेश्यायन्तः सङ्ख्येयगुणाः, सौधर्मेशानादिदेवेषु केषुचिच्च तिर्यङनुष्येषु 'तेजोलेश्यासद्भावात्, तेषां च सकलपद्मलेश्यासहित तिर्यगादिप्राणिगणापेक्षया संख्येयंगुणत्वात् । ततः कापोतलेश्यावन्तोऽनन्तगुणाः, अनन्तकायिकेष्वपि कापोतलेश्यासद्भावात् । ततो विशेषाधिका नीललेश्यावन्तः, नारकादीनां तलेश्यावतां तत्र प्रक्षेपात् । ततोऽपि विशेषाधिकाः कृष्णलेश्यावन्तः, भूयसां तल्लेश्यासद्भावात् ॥ ६१ ॥ थोवा जहन्नजुत्ताऽणंतयतुहत्ति इह अभवजिया । तेहिंतोऽणंतगुणा, भवा णिवाणगमणरिहा ॥ ६२ ॥ ( हारि०) व्याख्या - स्तोका इहान विचारे वर्तन्ते । क एते ? अभव्यजीवा मुक्तिगमनायोग्यजन्तवः, किं परिमाणाः । जघन्यं च तद्युक्तानन्तकं च जघन्ययुक्तानन्तकं सिद्धान्तप्रसिद्धम्, तेन तुल्याः समा जघन्ययुक्तानन्तकतुल्याः । इह युक्तानन्तकपदे स्थानाशून्यार्थ काचिद्भावना लिख्यते-तत्र जम्बूद्वीपप्रमाणशलाकाप्रतिशलाकामहाशलाकाख्यपल्यत्रयमनवस्थितचतुर्थपल्येन भ्रियते, एकैक भरणपूर्वकं यावचत्वारोऽपि पल्या भृता For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy