________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुःस्थानिकमन्दतीव्रतीव्रतर तीव्रतमर संयुक्तम् । प्रदेशतस्तु तदेवाल्पबहुप्रदेशनिष्पन्नमिति । यदाह - “स्वभावः प्रकृतिः प्रोक्तः, स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः, प्रदेशो दलसञ्चयः ॥ १ ॥” इति । संप्रति प्रकृतिस्थित्यनुभाग| प्रदेशानामाद्यभेदप्रदर्शनार्थमाह - प्रकृतिभेद एष वक्ष्यमाणो भवति । अयमभिप्रायः - अस्मिन् ग्रन्थे प्रकृतिप्ररूपणैव करिष्यते । इति गाथार्थः ॥ ३ ॥
संप्रति मूलोत्तरप्रकृतिसंख्यामाह
मूलपयडीउ अट्ठ उ, उत्तरपयडीण अट्टवन्नसयं । तासं सभावभेया, हुंति हु भेया इमे सुणह ॥ ४ ॥ व्याख्या - मूले प्रकृतयो 'मूलप्रकृतयः' प्रथमा इत्यर्थः । मूलभूता वा प्रकृतयो मूलप्रकृतय आद्या इत्यर्थः । 'अष्ट तु' अष्ठैव, न तु नव, नापि सप्त, तुशब्दस्यावधारणार्थत्वात् । उत्तराः प्रकृतय उत्तरप्रकृतयः, तासामुत्तरप्रकृतीनां पुनरष्टपञ्चाशदधिकं शतम्, पूर्वतुशब्दस्यैव विशेषणार्थत्वात् । विशेषणार्थत्वं वानेकार्थत्वा|दव्ययानाम् । 'तासां' प्रकृतीनां 'स्वभावभेदात् धर्मभेदाद्भवन्त्येव भेदा: 'इमें' एते । हुशब्दस्यैवकारार्थत्वात् । तांश्च वक्ष्यमाणलक्षणान् 'शृणुत' आकर्णयत यूयम् । इति गाथार्थः ॥ ४ ॥
प्रागभिहितमूलप्रकृतिभेदानाह पढममित्यादिगाथाइयेन
( पारमा० ) मूलप्रकृतयोऽष्टौ उत्तरप्रकृतीनां चाष्टापश्चाशं शतं भवति । संप्रति भेदसमर्थिकां युक्तिं प्रतिपादयंस्तानेवाह - 'तास' मूलप्रकृत्युत्तरप्रकृतीनां 'स्वभावभेदात्' स्वरूपवैचित्र्याद्भवन्ति 'भेदाः' प्रकाराः 'एते'अनन्तरग्रन्थेन विव
For Private And Personal Use Only