________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥१६९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्वन्ति । इति गाथार्थः ॥ ४० ॥
तथा
( मल०) परिहारविशुद्धि के सूक्ष्मसंपराये च संयमे नव योगा भवन्ति । के ते ? इत्याह- 'उरलवइमणा' औदारिकं चतुर्धा वाक्चतुर्धा मनश्च । यत्त्वाहारकद्विकं वैक्रियद्विकं कार्मणमौदारिकमिश्रं च तन्न संभवत्येव । तथाहि, आहारकद्विकं चतुर्दशपूर्ववेदिनः । परिहारविशुद्धिकसंयमोपेतश्चोत्कर्षतोऽप्यधीत किंचिन्यूनदशपूर्व एव, उत्कर्षतोऽपि तावदधीतश्रुतस्यैव तत्संयमप्रतिपत्त्यभ्यनुज्ञानात्, तत्कथं तस्याहारकद्विकसंभवः ? नापि तस्य वैक्रियद्विकसंभवः, तस्यामवस्थायांतत्करणाननुज्ञानाजिनकल्पिकस्यैव तस्याप्यत्यन्तविशुद्धाप्रमादमूल घोरानुष्ठानपरायणत्वात् वैक्रियारम्भे च लब्ध्युप| जीवनेनौत्सुक्यभावतः प्रमादसंभवात् । अत एव सूक्ष्मसंपरायसंयमेऽपि चतुर्णामपि योगानामभावः, तत्संयमोपेतस्याप्यत्यन्तविशुद्धतया निस्तरङ्गमहोदधिकल्पत्वेन वैक्रियाद्यारम्भासंभवात् । कार्मणमौदारिक मिश्रं चापर्याप्तावस्थायामेवेति संयमद्वयेऽपि तस्याभावः । तथा यथाख्यातसंयमे त एंव नव पूर्वोक्ता योगाः कार्मणौदारिकमिश्रसहिताः सन्त एकादश भवन्ति । यथाख्यातसंयमो हि केवलिनोऽपि भवति । तस्य च समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणं “कार्मा णशरीरयोगी, चतुर्थके पञ्चमे तृतीये च ।” इतिवचनात् । द्वितीयषष्ठसप्तमसमयेषु त्वौदारिकमिश्रं "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु" इतिवचनादवाप्यत इति, यथाख्यातसंयमे द्वयोरपि संभवः । 'सविउवा मीसे' इति मिश्र सम्यग्मि| थ्यादृष्टौ त एव नव पूर्वोक्ता योगा वैक्रियसहिताः सन्तो दश भवन्ति । तत्र वैक्रियं देवनारकापेक्षम्, यत्तु वैक्रियमिश्रं
For Private And Personal Use Only
टीकाद्वयो. पेतम् ॥
॥ ५३ ॥