________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SASAACANCE
उक्तानि वेदेषु जीवस्थानानि । अथ पूर्वायोजितकाययोगनंपुसकवेदयोरओतनपदपञ्चदशके च सर्वजीवस्थानानि । लाघवार्थ संगृह्य तत्प्रतिपादयन्नाह| (मल०) विकलत्रिक द्वीन्द्रिय १ त्रीन्द्रिय २ चतुरिन्द्रिय ३ लक्षणं, असंज्ञी ४ संज्ञी ५ च पर्याप्तः, इत्येतानि पञ्च है। जीवस्थानानि वाग्योगे भवन्ति न शेषाणि, तेषु वाग्योगासंभवात् । 'मणजोगे सन्निको इति-पर्याप्त इत्यनुवर्तते, मनोयोगे पर्याप्तः संइयेको लभ्यते नान्यः, तत्र मनःसद्भावायोगात् । तथा पुंवेदे खीवेदे च चरमाणि पर्याप्तापर्याप्तसंड्यसंज्ञिलक्षणानि चत्वारि जीवस्थानानि भवन्ति । यद्यपि च सिद्धान्तेऽसंज्ञी पर्याप्तोऽपर्याप्तो वा सर्वथा नपुंसक एवोक्तः। तथा चोक्तं प्रज्ञप्तौ-"तेणं भंते ! असन्निपंचेंदियतिरिक्खजोणिया किं इथिवेयगा पुरिसवेयगा नपुंसगवेयगा ? गोयमा! नो इत्थिवेयगा नो पुरिसवेयगा नपुंसकवेयगा।” इति । तथाऽपीह स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीवेदे पुंवेदे वाऽसंज्ञी निर्दिष्ट इत्यदोषः । तदुक्तं पञ्चसंग्रहमूलटीकायाम्-"यद्यपि चासंज्ञिपर्यासापर्याप्तौ नपुंसको तथाऽपि स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीपुंसावुक्ताविति ।" अपर्याप्तकश्चेह करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तका, लब्ध्यपर्यातकस्य सर्वस्यैव नपुंसकत्वात् ॥ २० ॥ काओगिनपुंसकसायमइसुयअनाणअविरयअचक्खू। आइतिलेसा भवियरमिच्छ आहारगे सवे ॥ २१ ॥
(हारि०) व्याख्या-काययोगे१ नपुंसकवेदे २ कषायचतुष्के ६ अज्ञानशब्दस्य प्रत्येकमभिसंबन्धात् म. त्यज्ञाने७ श्रुताज्ञाने ८ अविरते ९ अचक्षुर्दर्शने १० 'आइतिलेसा' इति कृष्णलेश्यायां ११ नीललेझ्यायां १२
For Private And Personal Use Only