________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACANCER
REARCHAEGACAS
म्यग्रहणं चक्षुर्दर्शनम् । अवधिरेव दर्शनं रूपिद्रव्यसामान्यग्रहणमवधिदर्शनम् । केवलमेव दर्शनं सकलजगद्भाविवस्तुसा|मान्यपरिच्छेदरूपं केवलदर्शनम् । 'अओ य छल्लेसा' इत्यादि निगदसिद्धम् ॥ १६ ॥
भव १ अभवा २ खउवसम १ खइय २ उवसमिय ३ मीस ४ सोसाणं ५।
मिच्छो य ६ सन्न १ सन्नी २, आहार १णहार २ इय भेया ॥ १७॥ (हारि०) व्याख्या-भव्याभव्यौ दौाक्षायोपशमिकक्षायिकौपशमिकमिश्रसासादनानि 'मिच्छो यक्ष इति मिथ्यात्वं चेति षट् । तथा संश्यसंज्ञिनौ हौ । तथाऽऽहारकानाहारको हो । 'इति अमुना प्रकारेण , 'भेदाः' द्विषष्टिप्रमाणा उत्तरभेदा मूलभेदानां भवन्तीति शेषः । एतेषां व्याख्यानमावश्यकादिग्रन्थेभ्योऽवसेयम्, गमनिकामात्रत्वात्प्रस्तुतप्रयासस्य । इति गाथार्थः ॥१७॥ साम्प्रतमतेष्वेव जीवस्थानान्याह| (मल.) भव्याभव्यौ प्रागुकस्वरूपौ। 'खउक्सम' इत्यादि । क्षायोपशमिकं क्षायिक औपशमिकं च । तत्र उदीर्णस्य मिथ्यात्वस्य क्षयेणानुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विष्कम्भितोदयत्वरूपेण च यन्निवृत्तं तत्क्षायोपशमिकम् । तथा त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेणात्यम्तोच्छेदेन निर्वृत्तं क्षायिकम् । तथोदीर्णस्य मिथ्यात्वस्य क्षये सत्यनुदीर्णस्य य उपशमो विपाकप्रदेशवेदनरूपस्य द्विविधस्याप्युदयस्य विष्कम्भणं तेन निवृत्तमौपशमिकम् । 'मीससासाणं मिच्छो य' इति मिश्रं सासादनं मिथ्यात्वं च, एतानि गुणस्थानकव्याख्यायां यथास्थानं वक्ष्यन्ते । शेषं सुगमम् ॥१७॥
१ श्रीहरिभद्रसूरिणा-"सासाणा" इत्येतत्पाठानुसारेण व्याख्यातम् ॥
054ALIGNO
For Private And Personal Use Only