________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः, पृथिव्यप्तेजोवायुवनस्पतयः। ते च प्रत्येक द्विविधाः, सूक्ष्मा बादराश्च । सूक्ष्मनामकर्मोदयात्सूक्ष्माः, सकललोकव्यापिनः । बादरनामकर्मोदयाद्बादराः, ते च लोकप्रतिनियतदेशवर्तिनः। द्वित्रिचतु- रसंज्ञिसंज्ञिपञ्चेन्द्रिया इति । इन्द्रियशब्दः प्रत्येकमभिसंबध्यते । द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, असंज्ञिसंज्ञिभेद|भिन्नाश्च पश्चेन्द्रियाः। तत्र द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः, शङ्खचन्दनककपर्दजलूकाकृमिगण्डोलपूतरकादयः। |त्रीणि स्पर्शनरसननांणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः, यूकामत्कुणगर्दभेन्द्रगोपककुम्थुमकोटादयः । चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः, भ्रमरमक्षिकामशकवृश्चिकादयः । पञ्च स्पर्शनस्सनप्राण-- चक्षुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः, मत्स्यमकरमनुजादयः । ते च द्विभेदाः, संज्ञिनोऽसंज्ञिनश्च । तत्र संज्ञानं संज्ञा, भूतभवद्भाविभावस्वभावपर्यालोचनं 'उपसर्गादातः' इत्यप्रत्ययः, सा विद्यते येषां ते संज्ञिनः, विशिष्टस्मरणादिरूपमनोविज्ञानभाज इतियावत् । तद्विपरीता असंजिनः, यथोक्तमनोविज्ञानविकला इत्यर्थः। एते च सूक्ष्मैकेन्द्रियादयः प्रत्येकं द्विधा, पर्याप्तका अपर्याप्तकाश्च । पर्याप्ति म पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः, सा च विषयभेदात्षोढा । तद्यथा-आहारपर्याप्तिः १, शरीरपर्याप्तिः २, इन्द्रियपर्याप्तिः ३, उच्छ्रासपर्याप्तिः ४, भाषापर्याप्तिः ५,मनःपर्याप्ति ६ श्चेति । तत्र यया बाह्यमाहारमादाय-खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः। यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः। यया तु धातुरूपतया परिणमि-12 तमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपयोप्तिः । यया पुनरुच्छासप्रायोग्यवर्गणादलिकमादायोच्छ्रासरूपतया
SAE%%%%ACHAR
For Private And Personal Use Only