________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
विनायकोपशमनाय मजालमुपादेयम् । आह च-"बहुविग्घाई सेयाई तेण कयमङ्गलोक्यारेहिं । सत्थे पयद्वियव, विजाऍ महानिहीए ब्व ॥१॥” ननु मानसादिनमस्कारतपश्चरणादिना मङ्गलान्तरेणैव विनोपशमसद्भावादिष्टसिद्धिर्भविष्यतीति किमनेन ग्रन्थगौरवकारिणा वाचनिकनमस्कारेण १ इति, सत्यम्, किन्तु श्रोतृजनप्रवृत्त्यर्थमिदं भविष्यति । तथाहि-यद्यप्युक्तन्यायेन कर्तुरविनेनेष्टसिद्धिः स्यात्तथापि प्रमादवतः| शिष्यस्येष्टदेवतानमस्काररूपमङ्गलं विना प्रक्रान्तप्रकरणाध्ययनश्रवणादिषु भवर्तमानस्य विनसंभवादम-181 वृत्तिः स्यात् । मङ्गलवाक्योपन्यासे तु मङ्गलवचनाभिधानपूर्वकं प्रवर्तमानस्य मङ्गलवचनापादितदेवताविषयशुभभावव्यपोहितविनत्वेन शास्त्रे प्रवृत्तिरप्रतिहतप्रसरा स्यात् । तथा देवताविशेषनमस्कारोपादाने सति देवताविशेषगदितागमानुसारीदं प्रकरणमतं उपादेयमित्येवंविधबुद्धिनिवन्धनत्वेन शिष्यप्रवृत्यर्थमिदं भविष्यतीति । आह च-"मंगलपुवपवतो, पमत्तसीसो वि पारमिह जाइ । संस्थिविसेसन्नाणा
गोरवादिह पयजा ॥१॥" शास्वृविशेषपरिज्ञानात् इत्युक्तगाथायास्तृतीयपादस्यार्थः ॥ ननु मङ्गलवि-| हकलानामपि बहुतमशास्त्राणां दृश्यते संसिद्धिः श्रोतृजनप्रवृत्तिश्चेति, ततः किमनेनानैकान्तिकेन शास्त्रगौ-18
रवकारिणा मङ्गलेन ? इति, सत्यम् , शिष्टसमयपरिपालनार्थमिदं भविष्यति । तथाहि-शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्तमाना इष्टदेवतानमस्कारपूर्वकं प्रायः प्रवर्तन्ते । शिष्टश्चायमप्याचार्य इति शिष्टसमा
१ "विशेषनमस्कारोपलब्धशुभ-" इत्यपि पाठः । २ “सत्थि" इत्यपि । ३ “शास्त्र” इत्यपि ॥
NSACARRORA
For Private And Personal Use Only