________________
Shri Mahavir Jain Aradhana Kendra
*%%%% % % %
www.kobatirth.org
॥ अर्हम् ॥
| न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः ॥
श्रीमजिनवल्लभगणिपुङ्गवप्रणीतः
श्रीहरिभद्रसूरिविरचितविवृत्त्या श्रीमन्मलयगिरिसूरिविरचितवृत्त्या च समलङ्कृतः
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
( अपरनाम - आगमिकवस्तुविचारसारप्रकरणम् )
Acharya Shri Kailassagarsuri Gyanmandir
( हारिभद्री )
नत्वा जिनं विधास्ये, विवृतिं जिनवल्लभप्रणीतस्य । आगमिकवस्तुविस्तर- विचारसारप्रकरणस्य ॥ १ ॥ इह जिनवल्लभ गणिनामा सूत्रकारो गणधरदेवादिनिबद्धातिगम्भीरशास्त्रार्थावगाहनाऽसमर्थानां विशिष्टसंहननायुर्मेधादिविकलानां कलिकालोत्पन्नमानकानामनुग्रहाय सूक्ष्मार्थसार्थप्रकाशनार्थ प्रस्तुतप्रकरणं | चिकीर्षुर्मङ्गलादिप्रतिपादकमिदमादौ गाथाद्वितयमाह
" शास्त्रार्थ -" इत्यपि ॥
For Private And Personal Use Only