________________
Shri Mahavir Jain Aradhana Kendra
बन्धस्वामित्वम्
॥१०४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकातो बोद्धव्यमिति । तथाऽत्रैव प्रकृत्यपकर्षप्रक्षेपकथनगाथाः । यथा - "वीससयं सामन्ने, सत्तरससयं तु बंधए मिच्छो । तित्थयराहारदुर्ग, न बंधए फिट्टए तेण ॥ १ ॥ सम्मा मिच्छद्दिट्ठी, आऊणि न बंधए जओ ताणि । फिट्टंति तेण तस्स उ अज्झवसाओ जओ नत्थि ॥ २ ॥ तित्थयरं पक्खिप्पर, सम्मद्दिद्विम्मि बंधए जेण । सम्मत्तस्स गुणेणं, आऊणि य तत्थ खिष्पंति ॥ ३ ॥ आहारमध्यमत्ते, पक्खिप्पर जेण संजमो तस्स । इय दुसु गुणठाणेसुं, अवगरिसो दोसु पक्खेवो ||४|| ” इह कर्मस्तवो| तगुणस्थानकबन्धात् नरतिरश्चां मिश्राविरतगुणस्थानकयोर्विशेषोऽयं द्रष्टव्यः । तद्यथा— कर्मस्तये मिश्रगुणस्थानके चतुःसप्ततिः ७४, अविरत गुणस्थानके सप्तसप्ततिः ७७ इति । नरतिरश्चां पुनर्मनुष्यगतिमनुष्यानुपूर्वी वज्रर्षभनाराचसंहननौदारिकशरीरतदङ्गोपाङ्गलक्षणप्रकृतिपञ्चकस्य बन्धाभावान्मिश्रगुणस्थानके एकोनसप्ततिः ६९, अविरते सप्ततिः ७०, केवलं नराणां तीर्थकरक्षेपे एकसप्ततिः ७१ इति । इहैकसप्ततिप्रमाणनरबन्धमध्येऽनन्तरोक्तप्रकृतिपञ्चके नरायुष्के च क्षिप्ते कर्मस्तवोक्ता सप्तसप्ततिर्भवति अविरतगुणस्थानके ७७ इति । एवं सामान्यकर्मस्तवोक्ताङ्कावली नरतिर्यगङ्कावली च किंचित्पृथग्जातेति केवलं तिरश्चां पञ्चैव गुणस्थानानि, नराणां तु सर्वाण्येव । विशेषस्तु मिश्राविरतगुणस्थानयोरिति तात्पर्यार्थः । विस्तरतस्तु कर्मप्रकृतिवर्णनादि कर्मस्तवटीकातो विज्ञेयमिति ॥ तथा-'अप्पजत्ता' इत्यादि, अपर्याप्तमनुजाः पुनस्तिर्यश्च इव शतं नवाग्रं १०९ बघ्नन्ति । तुशब्दो योजित एव । इति गाथाद्वयार्थः ॥ १४ ॥
एवं मनुष्यगतौ बन्धस्वामित्वमुक्तम् । साम्प्रतं देवगतिमधिकृत्य तत्प्रतिपादयन्नाह - वेउवाहारदुगं, नारयसुरसुहुमविगलजाइतिगं । मोतुं चउरग्गसयं, देवा बंधंति ओहेणं ॥ १५ ॥
For Private And Personal Use Only
सटीकम् ।
॥ ७ ॥