________________
Shri Mahavir Jain Aradhana Kendra
बन्धस्वा मित्वम्
॥१०३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुशब्दः पुनरर्थः प्रागेव योजित इति, अस्याः सार्द्धगाथायाः सामान्येन चतुर्दशगुणस्थानकेषु च नरबन्धमधिकृत्यैवं सशब्द | संस्काराङ्कतः स्थापना – तत्र सामान्येन विंशत्यधिकशतं १२०, मिथ्यादृशां सप्तदशोत्तरशतं ११७, सासादनानामेकोत्तरशर्त १०१, मिश्राणामेकोनसप्ततिः ६९, अविरतसम्यग्दृष्टीनामेकसप्ततिः ७१, देशविरतानां सप्तषष्टिः ६७, प्रमत्तानां त्रिषष्टिः ६३, अप्रमत्तानामेकोनषष्टिः ५९, निवृत्तिवादराणामष्टपञ्चाशत् ५८ षट्पञ्चाशत् ५६ षडूिंशतिश्चेति २६ विभागत्रयम्, अनिवृत्तिबादराणां द्वाविंशतिः २२ एकविंशतिः २१ विंशतिः २० एकोनविंशतिः १९ अष्टादश १८ चेति पश्च विभागाः, सूक्ष्मसम्परायाणां सप्तदश १७, उपशान्तमोह १ क्षीणमोह १ सयोगिनां १ प्रत्येकमेकैव । अयोगिनां मन्धो नास्ति । इति "कम्मन्थयंबंधसमो, पमत्तमाईण होइ बंधो उ" इत्युक्तम् । तत्र कर्मस्तवग्रन्थे सामान्यतो बन्धं प्रत्युक्तं, न पुनः काश्चन गतिमाश्रित्य । यथा - " सतरससयमेगुत्तर चउसयरी तह य सत्तसयरी य । सगसट्ठी तेवट्ठी, उणसट्ठी अडवण्णा य ॥ १ ॥ छप्पण्णा छबीसा, बावीसा सत्तरेगमेगं च । एगो य बंधसेसो, मिच्छाइसु होंति नायबा ॥ २ ॥ " अङ्कतस्तु सामा| न्येन १२० । मि० ११७ । सा० १०१ । मि० ७४ । अ० ७७ । दे० ६७ । प्र० ६३ । अ० ५९ । नि० ५८, ५६, २६ । अ० २२, २१, २०, १९, १८ । सू० १७ । उ० १ । क्षी० १ । सं० १ । अ० १ । एतानि चाङ्कस्थानानि प्रतिगुणस्थानमनेन प्रकृतिव्यवच्छेदक्रमेण जायन्ते । यथा - "मिच्छे सोलस पणुवीस सासणे अविरए य दसपयडी । चउछकमेग देसे, विरए य कमेण वोच्छिन्ना ॥ १ ॥ दुगतीस चउरपुबे, पंच नियट्टिम्मि बंध वोच्छेओ । सोलस मुहुमसरागे, साय सजोगी जिणवरिंदे ॥ २ ॥ इह मिथ्यादृष्टिसासादनगुणस्थानकद्वये 'बन्धं प्रति व्यवच्छिन्नाः प्रकृतयोऽत्रैव प्राक् प्रति
For Private And Personal Use Only
सटीकम्
॥ ६ ॥