________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकम्।
बन्धस्वामित्वम्
॥१०२॥
नोक्तम् !, सत्य, मिश्रस्येवाविरतस्यापि सप्ततिश्या, न्यूनाधिकप्रकृतेरभावात् । इति गाथाद्वयार्थः॥९॥ | एवं नरकगतौ बन्धस्वामित्वमभिधायाथ तिर्यग्गतौ सामान्येन गुणस्थानकविशिष्टं च तदाहतित्थाहारदुगृणा, तिरिया बंधति सवपयडीओ। पजत्ता तह मिच्छा, साणा उण सोलसविहीणा॥१०॥
व्याख्या तीर्थकराहारकद्धिकोनाः सर्वप्रकृतीः पर्याप्तास्तिर्यञ्चः प्रक्रमात्सामान्येन बनन्तीति ११७ । अत्र च तिरश्चा सत्यपि सम्यक्त्वे भवप्रत्ययादेव तथाविधाध्यवसायाभावात्तीर्थकरनाम्नः संपूर्णसंयमाभावादाहारकद्धिकस्य च बन्धो नास्तीति हृदयम् । 'तह मिच्छा' इति, तथा मिथ्यादृशोऽपि पर्याप्ता इति योगः । सप्तदशोत्तरशतसंख्याः ११७ प्रकृती-12 नन्ति । 'साणा उण' इति, सासादनाः पुनः षोडशेन पूर्वोक्केन विहीनाः षोडशविहीनाः १०१ ता बन्नन्ति । इति गाथार्थ॥१०॥
तथानरतिगसुराउउसभं, उरलदुगं मोतु पण्णवीसं च । अणुहत्तरं तु मीसा, सुराउणा सत्तरीसम्मा॥११॥ | व्याख्या-'नरतिग' इति, नरगतिनरानुपूर्वीनरायुस्त्रिक, सुरायुः, 'उसभं' इति, वज्रर्षभनाराचं, एषां समाहारद्वन्द्वस्तत् । 'उरलदुर्ग' इति, औदारिकशरीरतदङ्गोपाङ्गद्विकमिति सप्त प्रकृतीः पञ्चविंशतिं च प्रागुक्तां मुक्त्वा. एकोत्तरशतमध्यादिति शेषः । शेषामेकोनसप्तति मिश्रा बन्नन्ति ६९ । एषैव सुरायुषा सहिता सप्ततिर्भवति ७०, तां 'सम्मा' इति, अविरतसम्यग्दृष्टयो बन्नन्ति । इति गाथार्थः॥११॥
तथा
For Private And Personal Use Only