SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir मिच्छा, साणा नपाडारा योजना । ततः पाहुण्डसंस्थान सटीकम । बन्धस्वा- मित्वम्॥१०॥ SASAR तित्थोणं सय मिच्छा, साणा नपुहुंडछेयमिच्छोणं। मीसा नराउपणुवीसोणं सम्मा नराउतित्थजुयं ॥७॥ गीतिरियम् ॥ व्याख्या-अत्र साध्याहारा योजना । ततः प्रागुक्तमेकोत्तरशतं, 'तित्थोणं' इति, तीर्थकरनामोनं शतं भवति तन्मिथ्यादृशो बन्नन्ति १००। एतच्च शतं नपुंसकवेद १ हुण्डसंस्थान २ छेदस्पृष्टसंहनन ३ मिथ्यात्वो ४ नं सत्र पण्णवतिर्भवति, पर्ता सासादना बन्नन्ति ९६ । एषा च षण्णवतिः, नरायुश्च प्रागुक्तपञ्चविंशतिश्च नरायुःपञ्चविंशती, ताभ्यामूना नरायुःपञ्चविंशत्यूना सती सप्ततिर्भवति, तां मिश्रा बध्नन्ति ७० इति । एतां च सप्ततिं नरायुस्तीर्थंकरनामयुतां सम्यग्दृष्टयो बन्नन्ति ७२ इति । अयं च बन्धो रत्नप्रभाशर्करामभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये| हा द्रष्टव्यः, पङ्कप्रभादिषु विशेषवन्धाभिधानात् । इति गाथार्थः॥७॥ । अथ तमेव पङ्कप्रभादिनरकपृथिवीत्रये गाथाप्रथमपादेन तथा सप्तमनरकपृथिव्यां पादोंनगाथाद्वयेनाहपंकाइसु तित्थोणं, नराउहीणं सयं तु सत्तमिए । मणुदुगउच्चेहिँ विणा, मिच्छा बंधति छण्णउई ॥८॥ हुंडाईच्उरहियं, साणा तिरियाउणा य इगनउइं।इगुणपणुवीसरहिया, सनरदुगुच्चा सपरि मीसे॥९॥ | व्याख्या-सामान्य गुणस्थानचतुष्टयवर्ति च प्राक्तनप्रथमनरकपृथिवीत्रयोक्तं बन्धकदम्बकं यथासंभवं तीर्थकरनामोनं 'पंकाइसु' इति, पङ्कप्रभाधूमप्रभातमःप्रभासु मन्तव्यमिति शेषः । अत्र पृथिवीत्रये तीर्थकरनामनिमित्तसम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाध्यवसायाभावात्तीर्थकरनामकर्मवन्धो नास्तीति । ततः सामान्येन शतं १००, मिथ्यादृशां च शतं १००, सासादनानां षण्णवतिः ९६, मिश्राणां सप्ततिः ७०, अविरतसम्यग्दृष्टीनामेकसप्ततिः ७१, इति । इह तु For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy