________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASSACREASEARCISESS
व्यवच्छेद इति शेषः । सासादनगुणस्थानकस्वरूपं त्विदम्-"उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं, तयंतरालम्मि छावलियं ॥१॥ इति गाथार्थः॥५॥ | व्याख्यातं वक्ष्यमाणार्थोपयोगि गाथाद्वयम् । अथ प्रस्तुतमभिधीयते, तत्र मार्गणास्थानानां प्रथमं गतिद्वारमाश्रित्य नरकगतावोघबन्धः प्रतिपाद्यतेथावरचउजाई चउ, विउवाहारदुग सुरनिरतिगाणि।आयवजुयाऽऽहिँ ऊणं, एगहियसयं नरयबंधे ॥६॥
व्याख्या-थावरचउ' इति, स्थावरनाम १ सूक्ष्मनाम २ साधारणनाम ३ अपर्याप्तनामेति ४ चत्वारि, 'जाई चउ' इति, एक ५ द्वि ६ त्रि ७ चतुरिन्द्रिय ८ जातयश्चतस्रः, 'विउवाहारदुर्ग इति, द्विकशब्दस्य प्रत्येकमभिसंबन्धादै क्रियशरीर ९ तदङ्गोपाङ्गद्विकम् १०, आहारकशरीर ११ तदङ्गोपाङ्गद्विकम् १२, 'सुरनिरतिगाणि' इति, त्रिकशब्दस्य प्रत्येकमभिसंबन्धात् सुरगति १३ सुरानुपूर्वी १४ सुरायुष्कत्रिकम् १५, नरकगति १६ नरकानुपूर्वी १७ नरकायुष्कत्रिकम् १८, एषां तत्पुरुषगर्भो द्वन्द्वः। तानि किविशिष्टानि ? इत्याह-आयवजुय' इति, विभक्तिलोपादातपनाम १९ युतानि कर्माणीति शेषः। 'आर्हि ऊणं' इति, लिङ्गव्यत्ययेनैभिरूनमेकाधिकशतं नरकबन्धे । अयमत्राभिप्राय: एकोनविंशति कर्मप्रकृतीबंन्धाधिकृतकर्मप्रकृतिविंशत्युत्तरशतमध्यान्मुक्त्वा तत शेषस्यैकोत्तरशतस्य १०१ नरकगतावोघबन्धः । 'आयवजुयाणि मोत्तुं' इति पाठेऽयमर्थः-प्राक्तनकर्माणि आतपयुतानि मुक्त्वा, शेषं तथैव । इति गाथार्थः ॥ ६॥ इति सामान्येन नरकगतौ बन्धमभिधाय साम्प्रतं तस्यामेव मिथ्यादृष्ट्यादिगुणस्थानकचतुष्टयविशिष्टं तं प्रतिपिपादयिषुराह
AAAAA
For Private And Personal Use Only