________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GALASAR
नाम्नः प्रश्नमप्रकृतिरपि गतिरस्तीति पौनरुत्या शङ्कास्यात् , अलस्तव्यवच्छेदार्थ विहायोग्रहण कार्यम् । विहायसा गतिः प्रवृत्तिने तु भवगतिर्नरकगत्यादिकेति । सा च द्विविधा, प्रशस्ताऽप्रशस्ता च । प्रशस्ता गजहंसवृषभादीनाम्, अप्रशस्ता तूष्ट्रखरटोलादीनामिति, तद्विपाकवेद्या कर्मप्रकृतिरपि तन्नामिकैव द्विविधा १४ । इत्युक्ताः पिण्डप्रकृतयः॥ त्रसन्त्युमाद्यभितप्ताः छायाद्यभिसर्पणेनोद्विजन्ते तस्मादिति सा द्वीन्द्रियादयः, तत्पर्यायविपाकवेद्यं कर्मापि सनास १५ । उष्णाचभितापेऽपि स्थानशीला न तत्परिहारसमर्थाः स्थावराः पृथिव्यादय एकेन्द्रियाः, तत्पर्यायविपाकवेद्यं कर्मापि स्थावरताम । तेजोवायूनां तु स्थावरनामोदयेऽपि स्वाभाविकं चलनम् १६ । यस्योदयाजीका बादराः स्थूरा भवन्ति तद्वादरनाम । न चेह चाक्षुषत्वं वादरत्वमिष्टं, बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चाक्षुषत्वाभावात् । यद्यपि चैतनीवविपाकि बादरनाम लथापि शरीरेऽभिव्यक्ति कियतीमपि दर्शयति । यथा क्रोध उदितो रकनेत्रभ्रकुटीभङ्गरूक्षवदनत्वादिकमिति । तेन पृथिव्यादीनां बादराणां बहूनां समेतानां चाक्षुषत्वं भवति, न तु सूक्ष्माणामिति १७॥ यस्योदयात्सूक्ष्माः पृथिव्यादयः पञ्च भवन्ति तत्सूक्ष्मनाम १८ । पर्याप्तिराहारादिपुद्गलदलिकग्रहणपरिणमनहेतुः पुद्गलोपचयजः शक्तिवि|शेषः । सा च साध्यभेदेन पोढा । यया ह्याहारमात्मा गृहीत्वा खलरसतया परिणमयति सा शक्तिराहारपयोप्तिः। यया रसीभूतमाहारं सप्तधातुतया परिणमयति सा शरीरपर्याप्तिः । यया तु धातुभूतमिन्द्रियतया परिणमयति सेन्द्रियपयोप्तिः। यया तूच्छ्वासप्रायोग्यं वर्गणाद्रव्यमादायोच्छासतयाऽऽलम्ब्य मुश्चति सोच्छ्वासपर्याप्तिः । ययातु भाषाप्रायोग्य वर्गणाद्रव्य
१ "विहायसो' इति वा पाठः । २ “यथा क्रोधे उदिते" इत्यपि पाठः ॥
For Private And Personal Use Only