SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रशतादपनीयते, शेषाया नवनव॑तेः सत्ता । सयोगिकेवलिनस्तु क्षीणकषायचरमसमयक्षीणे चतुर्दशके नवनवतेरपनीते शेषायाः पंचाशीतेः सत्ता ॥ ७ ॥ बावन्तरिं दुचरिमे, तेरस चरिमे अजोगिणो खीणे । अडयालं पयडिसयं, खविष जिणं निब्रुयं वंदे ॥८॥ अयोगिकेवलिनो द्वासप्ततिर्द्विचरमे समये क्षीणा । द्वौ चरमावस्मादिति द्विचरमः, तद्गुणसंविज्ञानेन बहुव्रीहिणा चरः मात्पूर्वोऽनन्तरसमय उच्यते । 'तेरस चरिमे अजोगिणो खींणे' इति त्रयोदश चरमे समये कर्माण्ययोगिक वलिनः क्षीणानि । यावद्विवरमसमयस्तावत्पूर्वोक्तायाः पञ्चाशीतेः सत्ता । चरमसमये तु द्विचरंमसमयक्षीणायां द्वासातौ पश्चाशीतेरपनीतायां शेषाणां त्रयोदशानां सत्ता । तदेवं च 'अडयालं पयडिसयं, खंविय जिणं निघुयं वंदे' इति, पूर्वभवक्षीणमायुंखयमविरताद्यप्रमत्तान्तगुणंस्थान क्षीणे दर्शनसप्तकें क्षिप्तं जाता दश । तेऽप्यनिवृत्तिबादरसम्परायक्षीणे षोडशके क्षिता जाता पविशतिः । तस्यां तत्रैव क्षीणमष्टकं क्षिप्तं जाता चतुस्त्रिंशत् । तस्यां तत्रैव क्रमेण क्षीणौ द्वावेककौ क्षिप्तौ जाता पत्रिंशत् । तस्यां तत्रैव क्षीण पङ्कं क्षिप्तं जाता द्विचत्वारिंशत् । तस्यां तत्रैव क्रमेण क्षीणाश्चत्वार एककाः क्षिष्ठा जाता षट्चत्वारिंशत् तस्यां सूक्ष्मसम्परायक्षपित एकः क्षिप्तों जाता सप्तचत्वारिंशत् । तस्यां क्षीणमोहक्षपितं द्वयं क्षिप्तं जातैकोनपञ्चाशत् । तस्यां तत्क्षपितमेव चतुर्दशकं क्षिप्तं जाता त्रिषष्टिः । साऽप्ययोगिकेवलिक्षपितायां द्विसप्ततौ क्षिष्ठा जातं पञ्चत्रिंशं शतम् । तंत्र तत्क्षपितमेव त्रयोदशकं क्षिप्तं जातमष्टचत्वारिंशं शतमिति । तदेवमष्टचत्वारिंशं प्रकृतिशतं क्षपयित्वा जिनों निर्वृतः, तमेवंविधं जिनमहं वन्दे ॥ ८ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy