________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
टीकोपेतः।
॥ ६९॥
वन्त इत्यर्थः, तान् । तेषां वरशब्दलब्धं केवलित्वं विशेषणान्तरेण विवृणोति-'त्रिभुवनवरज्ञानदर्शनप्रदीपान्' त्रीणि भुवनानि अधिस्तिर्यग्लोकरूपाणि, तेषां वराभ्यां केवलरूपतया ज्ञानदर्शनाभ्यां प्रदीपाः प्रकाशकास्तान, पर्वविधान जिनवरेन्द्रामत्वा ततः स्तवं वक्ष्यामीति संबन्धः । किंविशिष्टं सवस् !, 'बन्धोदयसद्युक्त' तब मिथ्यात्वादिभिर्यबहेतु। मिरञ्जनचूर्णपूर्णसमुद्गकवत् निरन्तरं गलनिचिते लोके कर्मयोग्यवर्गणापुरात्मनो वययापिण्डवदम्योऽग्यासुगमाभेदात्मकः संवन्धो बन्धः तेषां च यथा स्वस्थितिबद्धानां कर्मपुद्गलामा करणविशेषकृते स्वाभाविके चा खित्वपश्ये सत्युदयसमयमानानां विपाकवनमुदयः । उदयमहगोनोदीरणाऽपि तज्जातीया गृह्यते । सा पुनः कर्मपुरलानां करणविशेषजनिते स्थित्यपचये सत्युदयावलिकायां मवेशनमुदीरणा । बन्धसङ्कमाभ्यां लब्धात्मलाभानां कर्मणां निर्जरणसङ्कमणकृतस्वरूपप्रच्युत्यभावे सदावः सत्ता । बन्धश्च उदयश्च सत् चेति बन्धोदयसन्ति, सदिति भावप्रधानेन निर्देशन सत्तोच्यते, तैर्बन्धोदयसनियुक्तः, तेषां व्यवच्छेदस्येह वर्णनात् , तं स्तवं वक्ष्यामि । स्तवस्त्वयमसाधारणसद्भूतगुणोत्कीतैनरूपत्वात् । स त्विह गुणो बन्धोदयो दीरणासायो जिनस्य वेदितव्यः। तथा च सदुद्देशाधिकारे वक्ष्यति-"अडयालं पयडिसयं, खविय जिणं निलयं बंदे" इति । सत्तापक्षये च बन्धोदयोदीरणा अपि क्षीणा एव भवन्ति, इति पृथक् तत्क्षयो नोक्तः । तत्क्षयोऽपि वा प्रतिगुणस्थानं तळ्यवच्छेदवचनेन पृथगुक्त एव । निशमयतेति शिष्यान बोधयति । यमहं जिनस्य स्तवं वक्ष्ये तं 'निशमयत' शृणुत यूय, तच्छ्वणस्य तदुक्तभगवद्गुणबहुमानद्वारेणाशयशुख्या कर्मक्षयहेतुत्वाद्वस्तुस्वरूपावगतिहेतुत्वाच्च । तदवगतिहेतुत्वं च स्तावकवचनानामपि वस्तुस्वरूपवाचिस्वेन प्रामाण्याभ्युपगमात् , तदेवमिह वक्तुरात्मा
For Private And Personal Use Only