________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
KASSROCOGESCk
स्थिरनामकमैव । इति गाथार्थः ॥ १४१॥
शुभमाहसिरमाईण सुहाणं, अंगावयवाण जस्स उदएण। निप्फत्ती उसरीरे, जायइ त होइ सुभनामं ॥ १४२॥ ___ व्याख्या-शिरःप्रभृतीना' आदिशब्दाबक्षःस्थलादिपरिग्रहः, 'शुभानां' प्रशस्तानां, अङ्गस्यावयवा अङ्गावयवाः, अङ्गशब्देन चात्र शरीरमुच्यते नोदरादि, अस्यामेव गाथायामादौ शिरसोऽङ्गावयवत्वेनाभिधानात् तेषां, 'यस्य' नामकर्मण उदयेन 'निष्पत्तिस्तु निवृत्तिरेव 'शरीरें देहे 'जायते' निष्पद्यते तद्भवति 'शुभनाम' शुभनामसंज्ञक कर्म । इति गाथार्थः ॥ १४२॥
उक्तं शुभनाम, अधुनाऽशुभनामाह(पारमा०) शिर आदिर्येषां ते शिरआदयो नाभेरुपर्यवयवास्तेषां शुभानामगावयवानां 'यस्य' कर्मण उदयानिष्पत्तिः पुनः (शरीरे )जायते तत् शुभनाम भवति । शिरसा हि स्पृष्टस्तुष्यति । इति गाथार्थः॥ १४२ ॥
अशुभमाहपायाईअसुहाणं, अंगावयवाण जस्स उदएणं । निप्फत्तीउ सरीरे, जायइ तं असुभनाम तु॥ १४३ ॥ | व्याख्या-पादावादिर्येषामवयवानां पादादिः, आदिशब्दात्पुतादिपरिग्रहः, तेषां 'अशुभाना' अशोभनानां 'अङ्गावयवानां देहदेशानां 'यस्य' पुनः कर्मणः 'उदयेन' विपाकेन 'निष्पत्तिस्तु' निवृत्तिः, तुशब्दः
For Private And Personal Use Only