________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाकः
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या—घ्राणेन्द्रियाखाद्येन 'सुरभिगन्धं' शोभनगन्धम् । अथवा गन्धेन 'दुरभिगन्धं तु' दुष्टगन्धमेव 'भवति' जायते 'जीवानां' प्राणिनां 'देहः' शरीरं 'उदयेन' अनुभवेन 'गन्धनाम्नः' कर्मणः । इति गाथार्थः ॥ ११५ ॥ उक्तं गन्धनाम, रसनाम प्राह
( पारमा० ) गन्ध्यते आघ्रायते इति गन्धः, तन्निबन्धनं नाम गन्धनाम । सुष्ठु रभते सुरभिः, ततश्च गन्धेन सुरभि गन्धम् । अथवा गन्धेन दुरभिगन्धं तु दुष्टं अभि आभिमुख्यं यत्र एवंभूतं जीवानां देहं सुरभिदुरभिभेदभिन्नस्य गन्धनाम्न उदयेन भवति । इति गाथार्थः ॥ ११५ ॥ रसनाम प्रतिपादयति
तित्तगकडुय कसाया, अंबिलमहुरा रसावि पंच भवे । तेवि हु जियदेहाणं, रसनामुदएण खजंता ॥ ११६ ॥
व्याख्या - तिक्ताश्च कटुकाच [ कषायाश्च ] तिक्तकटुकाः [ ककषायाः ] तिक्ताः कटुकाद्याः, कटुकाः शुण्य्यादयः कषाया हरीतक्याथाः, अम्ला बीजपूरादयः, मधुरा इक्ष्वादयः । रसास्तु पञ्चैव भवन्ति, लवणरसः सर्वानुयायित्वान्न पृथगुक्तो जा (ज्ञा) यते । न केवलं रसादयः, तेऽपि 'जीवदेहानामेव' प्राणिशरीराणामेव 'रसनान्नः' कर्मणः 'उद्येन' अनुभवेन 'खाद्यमानाः ' भक्ष्यमाणाः । हुशब्दस्यैवकारार्थत्वात् । इति गाथार्थः॥ ११६ ॥ उक्तं रसनाम, साम्प्रतं स्पर्शनामाह
( पारमा० ) तिक्तकटुककपाय अम्लमधुरा रसा अपि पश्च, न केवलं वर्णाः, किं तु रसा अपि पश्च जीवदेहानां १. " रसा उ" इति व्याख्यातारः ॥
For Private And Personal Use Only
टीकाद्वयोपेतः ॥
॥ ४८ ॥